पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१६
काव्यमाला ।

कौतुकेनेव कामिन्यो गीतेनेव मृगाङ्गनाः ।
दर्पाङ्कुरेण नश्यन्ति पेशला नृपतिश्रियः ॥ २०१ ॥
मन्त्रगुप्तिरविश्वासो विक्रान्तिर्मित्रसंग्रहः ।
विनयश्चेति भूपानां लक्ष्मीरक्षासमुच्चयः ।। २०२ ॥
दानशीलाः क्षमावन्तः समानाः सुखदुःखयोः ।
धैर्यद्वितीया राजानो वसुधानन्दनिर्झराः ॥ २०३ ॥
आसीच्चन्द्रावलोकाख्यः शिबीनामुर्वरीपतिः ।
तस्य तारावलोकोऽभूत्तनयो यशसां निधिः ॥ १०४ ॥
यद्यत्प्रार्थयते यो यस्तत्तस्मै प्रददाम्यहम् ।
इत्यसौ राजतनयो व्यधापटहघोषणम् ॥ २० ॥
कुलक्रमागतस्तस्य बभूव जयकुञ्जरः ।
यस्य दन्तार्गलयुगं रक्षा भुवनमण्डले ॥ २०६।।
तच्छत्रुप्रेरिताः प्राप्य ब्राह्मणास्तं ययाचिरे।
गजं कुवलयापीडं मानपीडाकरं द्विषाम् ।। २०७॥
तमकृत्रिममायूरच्छत्रं भ्रमरकुण्डलैः ।
याचितः प्रददौ तेभ्यो राजपुत्रो जयद्विपम् ॥ १० ॥
दत्ते तस्मिन्महानागे रक्षागेहे जयश्रियः ।
पौराणां जातदुःखानां सोऽभवच्छोच्यतां नृपः ॥ १०९ ॥
(ततो विवासितः सर्वेरमात्यैर्जनकेन च ।
ययौ तपोवनं दाता स सभार्यः सपुत्रकः ॥ २१ ॥
अरण्ये याचितोऽभ्येत्य ब्राह्मणैः पुत्रकावपि ।
रामलक्ष्मणनामानौ माद्रीं च दयितां ददौ ॥ २११ ॥
ततस्तुष्टे सुरषतौ विस्मिते द्युसदां गणे ।
श्वेतं कुञ्जरमादाय तमेत्य श्रीरयाचत ।। २.१२॥
प्रति विद्यास्वरेन्द्राणां भज रवं चक्रवर्तिताम् ।
इति तच्छासनात्प्राप सानुगः स महत्पदम् ॥ २१३ ।।


युनिकोवाहाटपाव ख-पुस्तके बुटिला,