पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८. सुरतमञ्जर्याम्-तारावलोकाख्यायिका ]
६१५
बृहत्कथामञ्जरी

अहं मतङ्गदेवाख्यो राजा विद्याधरेश्वरः ।
नियुक्तो गौरिमुण्डेन नरवाहवधे पुरा ॥ १८८ ॥
ततोऽहं तद्वधोद्युक्तः प्रच्छन्नः शूलपाणिना ।
शप्तश्चण्डालतां यातो द्विजसंघागमावधिम् ॥ १.८९ ॥
सोऽहं विमुक्तशापोऽद्य पुत्री सुरतमञ्जरी ।
दत्तेयं तव पुत्राय मया कर्पूरहासिनी ॥ १९०
इति तेनार्पितां प्राप्य तां दृष्ट्वावन्तिवर्धनः ।
विललास स्मरावासमानसो रतिलालसः ॥ १९ ॥
विद्याधरोऽपि तां दत्वा सुतां सुरतमञ्जरीम् ।
नभो विगाह्य प्रययौ लोलहारांशुमण्डलः ॥ १९२ ॥
याति काले स्मरस्मेरा रत्नपर्यङ्कशायिनी ।
केनापि मायिनाभ्येत्य सा हृता नेत्रकौमुदी ।। १९३ ॥
ततस्तद्विरहायाससंतप्तेऽवन्तिवर्धने ।
पालकान्तःपुरे तारं चचारारोदनध्वनिः ।। १९४ ।।
अथ देव त्वदादेशादयं धूमशिखः क्षणात् ।
अवन्तिवर्धनं मां च गृहीत्वाप्तस्त्वदन्तिकम् ॥ १९५ ॥
इति सुरतमञ्जरीकथा ॥७॥
वचो भरतरोहस्य श्रुत्वेति नरवाहनः ।
मोचितां राजपुत्राय ददौ सुरतमञ्जरीम् ॥ १९६ ॥
तामादाय गते तस्मिन्विद्यया पालकात्मजे।
दूतं मुमोच दुर्वृत्तं कृपया नरवाहनः ।। १९७ ॥
ततः कदाचिदास्थानसमासीनं तमभ्यधात् ।
प्रियासुहृन्मन्निवृत्तं कश्यपः श्रेयसां निधिः । १९८ ।।
चक्रवर्तिपदं प्राप्य राजन्विद्याधरश्रियम् ।
मयोपायगुणोद्योगैः कुर्वीथा नित्ययौवनम् ॥ १९९ ॥
मदेन नष्टा बहवः शूरा ये चक्रवर्तिनः ।।
वह्निज्वाला जलेनेव श्रीमदेनोपशाम्यति ।। २०० ।।