पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१४
काव्यमाला ।

सा निबद्धा दृढस्नेहा दृढबन्धानुरागिणी।
दुर्गोपहारमात्मानं तं विना कर्तुमुद्ययौ ।। १७६ ॥
प्रसन्नवत्सला देवी प्राह तामथ पार्वती।
मा कृथा साहसं पुत्रि स चौरो गुलिकाधरः ॥ १७७ ॥
विद्याधरी पूर्वभार्या तस्य त्वं हृदयप्रिया ।
शापः क्षीणोऽद्य बुवयोर्भज विद्यां कुलोचिताम् ॥ १७८ ॥
इति देवीवरात्प्राप्तविद्या गत्वा च सा निशि ।
अजीवयस्थितं शूले चौरं प्रक्षीणकिल्बिषम् ॥ १७९ ॥
ततो विद्याधरपदं प्राप्य तौ बभतुर्दिवि !
इति नीचदशां यान्ति खेचरा अपि कारणात् ॥ १८ ॥
इति चौराख्यायिका ॥ ६ ॥
पालकः कथयित्वेति सुतस्नेहादयाचत ।
दूतैरुत्पलदत्ताख्यं चण्डालं तां सुमध्यमाम् ॥ १८१ ।।
याचितः प्राह मातङ्गो भुञ्जते यदि मे गृहे ।
अष्टादशसहस्राणि द्विजानां राजशासनात् ॥ १८२ ।।.
तदियं दीयते कन्या राज्ञे सुरतमञ्जरी ।
इति तत्प्रेरितो राजा भोक्तुं विप्रानचोदयत् ।। १८३ ॥
भीता नृपादधर्माच्च द्विजास्ते शरणं ययुः ।
उज्जयिन्यां महाकालं चण्डालान्नविकूणिताः ॥ १८४ ॥
ततः कृशांस्तानवदद्भयास्त्राणं त्रिलोचनः
द्विजेन्द्रो न स चण्डालः शापाद्विद्याधरो हि सः ॥ १८५ ॥
युष्माभिर्दृष्टमात्रोऽसौ स्वां तनुं प्रतिपत्स्यते ।
न दूष्य इति रुद्रस्य शासनात्ते ययुर्द्विजाः ॥ १८ ॥
ततस्तद्दर्शनादेव स विद्याधरतां गतः ।
उचाच पालक हृष्टः स तामादाय सुन्दरीम् ॥ १८७ ॥