पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८. सुरतमञ्जयाम्-चौराख्यायिका ।।
६१३
हत्कथामकरी ।

निद्रानिश्चेष्टमालोक्य तं राजतनया ययौ ।
लघुसंचारनिभृता करस्थगितनूपुरा ।। १६४ ।।
अहमभ्रष्टकौमारा प्राप्तकामश्च धीवरः ।
उभयोः कुशलं दिष्ट्या ध्यात्वेति प्रीतिसाप सा ॥ १६५ ।।
नष्टधीर्धीवरः कान्तां प्रबुद्धो वीक्ष्य निर्गताम् ।
उक्त्वा हा वञ्चितोऽस्मीति बभूव सहसा व्यसुः ॥ १६ ॥
विज्ञाय तं तथाभूतं राजपुत्री सुदुःखिता।
तस्यानुशरणं वह्निप्रवेशे निश्चयं व्यधात् ।। १६७
ततो विदितवृत्तान्तः शोकलज्जाकुलो नृपः ।
तनयावत्सलचक्रे शंकराराधनव्रतम् ॥ १६८ ।।
तस्य सत्यव्रतस्याग्रे प्रोच्चचार वचो दिवः ।
नरेद्र सुप्रहारोऽयं पूर्वे विप्रो न धीवरः ॥ ११९ ॥
पुरा नागस्थलमामे द्विजन्माभून्महीधरः ।
तस्यायं तनयो गङ्गातीरे तत्याज जीवितम् ।। १७० ॥
प्राणप्रयाणसमये दृष्ट्वाग्रे यत्स्वजीविनम् ।
स स्पृहावासनातुल्यां जाति प्राप्तोऽद्य गार्हताम् ॥ १७१ ॥
तस्यानुपतिता वह्निं तद्भार्येयं सुता तव ।
आयुषोऽर्धेन पुत्र्यास्ते जीवत्वेष द्विजाकृतिः ॥ १७२ ।।
इत्याकर्ण्य नभोवाणीं स तया लम्भितायुषे ।
तस्मै ददौ तां तनयामिति प्राग्जन्मसूचिकाम् ॥ १७३ ॥
इति धीवराख्यायिका ॥ ५ ॥
पुरायोध्याधिनाथेन भूभुजा वीरबाहुना ।
वीरचर्याप्रसक्तेन प्राप्तश्चौरो महार्थहृत् ।। १७४ ।।
एकचारी स निहतः शूलेन गरशूलहृत्
दृष्टः पूर्वं वणिक्पुत्र्या रामदत्ताख्यया पुरा ॥ १७९ ॥


१ ख.२. 'महाधनख.