पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१२
काव्यमाला ।

वसन्ते संततामोदनन्दितेन्दीवराकुले ।
सा कदाचिद्वरोद्याने विजहार मनोहरे ॥ १५१ ॥
ततो यदृच्छया यातः सुप्रहाराभिषो युवा ।
ददर्श धीवरः कान्तां तां तारुण्यतरङ्गिणीम् ।। १५२ ।।
दृष्ट्वैव तद्गुणक्षिप्तकंदर्यबडिशेन सः ।।
तूर्म्ण हतमनोमीनः शून्यो हद इवाभवत् ॥ १९३ ।।
स तु ध्यानपरो गत्वा मुमूर्छास्वस्थविग्रहः ।
पृष्टो जनन्या स्वं वृत्तं शनैर्लज्जानतोऽवदत् ॥ १५४ ॥
धीवरी धीवरी साथ ज्ञात्वा रक्षिभिकाभिधा ।
मत्स्योपायनहस्ता तां सेवितुं कन्यकां ययौ ॥ ११६ ।।
चिरेण सेवया तस्यास्तुतोष नृपपुत्रिका ।
प्रीतिजालैमनोमत्स्यः कस्य नाम न कृष्यते ॥ १६६ ।।
करवाणि प्रियं सत्यं तवेत्युक्तवतीं च ताम् ।
धीवरी प्राह पुत्रो मे त्वां विना याति पञ्चताम् ॥ १६७ ॥
राजपुत्री निशम्येति ध्यात्वोवाच तथेति ताम् ।
प्रतिश्रुतं हि महतां पश्चात्तापैर्न लुप्यते ॥ १५८ ॥
ततः स्राऴतस्तयाहूतो भूषितः सुरभीकृतः ।
न्यस्तः स धीवरयुवा शय्यायां गुप्तमन्दिरे ॥ ११९ ।।
सहिता गुह्मराजेन राजपुत्री ततोऽविशत् ।
निशि शय्यागृहं खिन्ना चन्द्रकान्तिरिवाम्बरम् ॥ १६ ॥
तमालिलिङ्ग सा तत्र हर्षपीयूषवर्षिणी ।
अदृष्टपूर्वसंस्पर्शकातरं भृशविह्वलम् ॥ ११ ॥
चिरान्मनोरथप्राप्त्या प्रशान्तविरहानलः ।
स भेजे क्षीणवृत्तित्वारक्षणं मोक्षोपमां दशाम् ।। १६२ ।।
अप्राप्तसुरतासङ्गः स निद्रां क्षिप्रमाययौ
अवन्या को हि दैवेन फलकाले न वञ्चितः ॥ १३ ॥


भाविकया ख

मुख