पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८. सुरतमार्याम्-धीवराख्यायिका ।
६११
मृहत्कथामञ्जरी ।

तो राजपुत्रीं नागेन दृष्ट्वा विग्रहदे जने ।
ररक्ष करिणं हत्त्वा कोऽपि चण्डालदारकः ।। १३९ ।।
ततः परस्परप्रेमळविलोकनमहोत्सवे ।
तयोर्ययौ भनोत्रन्थिविदग्धों मकरध्वजः ॥ १४०
सेवाभिरौषधैर्मन्त्रैः प्रीतिः कालेन जायते ।
दृष्टमात्रस्तु वशद अतीव दयितो जनः ।। १४१ ॥
स चण्डालकुमारोऽथ गत्वा तद्विरहाकुलः ।
श्मशाने वह्निमादाय जीवितं त्यक्तुमुद्ययौ ।। १४२ ।।
तमुवाच ततस्तत्र भगवान्पावकः स्वयम् ।
कानीनस्त्वं मम सुतो न त्वं चण्डालदारकः ॥ १४३ ।।
कपिलाख्या ब्राह्मणस्य पुत्री कपिलशर्मणः ।
मया समागता पूर्वं त्वामसूत रविप्रभम् ॥ १४४ ॥
त्यक्तस्तया कन्ययैव कुन्त्या वैकर्तनिर्यथा ।
चण्डालेनासि संप्राप्य गोक्षीरेण विवर्धितः ।। १४५ ॥
गच्छ याचस्व तां कन्यां भूपालं ब्राह्मणो भव ।
प्राक्कर्मजोऽयं संसर्गदोषः प्लुष्टो भयाद्य ते ॥ १४६ ।।
श्रुत्वेति पावकवचो गत्वा सेनजितं नृपम् ।
कन्यामयाचत प्रौढश्चुकोपास्मै ततो नृपः ॥ १४७ ॥
ततस्तु जन्मवृत्तान्तं यथोक्तं स्वमग्निना ।
देवदूतो दिवः प्राह तञ्चामन्यत भूपतिः ॥ १४ ॥
ततः कुरङ्गीं संप्राप्य चिरं विरहतापिताम् ।
पित्रार्पितामिति प्रायो देवा यान्त्यपि दुष्कुले ॥ १४९ ॥
इति कुराख्यायिका ॥४॥
राजा मलयसिंहोऽभूत्पुरे राजगृहाभिधे ।
तस्य मायावती नाम तनयाभूत्सितस्मिता ।। १६० ॥


१. 'सा राजपुत्री नागेन कुष्टा वि' ख.. २. 'नो बस