पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१०
काव्यमाला ।

अवन्तिवर्धनस्तत्र राजपुत्रोऽयमुत्सुकः ।
दृष्ट्वा चण्डालकन्यां तामभवत्स्मरतापितः ॥ १२६ ॥
ततस्तद्विरहायासपाण्डुरः प्रतिवासरम् ।
कृष्णपक्षकृतालम्बः शशीव क्षामतां ययौ ।। १२७
पालकोऽथ सुतं ज्ञात्वा सभार्यः पृथिवीपतिः ।
गाढाभिलाषं मातङ्ग्यां चिन्ताशोकाकुलोऽभवत् ॥ १२८ ॥
राजानं दुःखसंतप्तं तनयस्नेहयम्रितम् ।
प्राहावन्तिवती देवी धिगेवं कुलपांसनम् ॥ १२९ ॥
राजा राजकुले जातो विद्याभिरभिसंस्कृतः ।
अतीव कोऽप्ययोग्येषु विधत्ते साभिलाषताम् ।। १३० ।।
पापः कोऽप्येष जठरे मया भारश्चिरं धृतः ।
अस्य शीलेन नः सर्व संशये पतितं कुलम् ॥ १३१ ।।
शीलं राज्ञां दिशां चन्द्रस्तारुण्यं हरिणीदृशाम् ।
लतानां मधुमासश्च विभूषणमकृत्रिमम् ॥ १३२ ॥
विदेशेषु धनं विद्या व्यसनेषु धनं मतिः ।
परलोके धनं धर्मः शीलं सर्वत्र वै धनम् ॥ १३३ ॥
इति जायावचः श्रुत्वा प्राह पालकभूपतिः ।
देवि चण्डालकन्यैषा दिव्यजातिरिवेक्ष्यते ॥ १४ ॥
रूपमुत्तममम्लामा कान्तिः सप्रतिमं वचः।
गणनीया गुणश्रीश्च सूचयन्ति न नीचताम् ॥ १३५ ॥
धात्रा शापावतीर्णासौ कापि वर्गवधूर्ध्रुवम् ।
रज्यते जातिदोषेण मर्त्यसंस्पर्शदूषणात् ॥ १३६ ॥
नगरे सुप्रतिष्ठाख्ये राज्ञः सेनाजितः पुरा ।
पुत्री कुरङ्गिका नाम विहर्तुं वनमाययौ ।। १३७ ॥
अत्रान्तरे मदमजस्त्रुटितालानशृङ्खलः ।
थावञ्जाह तामेत्य नीलाद्रिरिव जङ्गमः ।। १३८ ।।