पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८. सुरतमचर्याम्- कुराख्यायिका
६०९
बुहत्कथामञ्जरी


तञ्चण्डडिण्डिमव्या नपिण्डिते जनमण्डले ।
अकालप्रलयप्रान्तिभीमः कोलाहलोऽभवत् ।। ११३ ।।
ततः कुतूहलाकृष्टा निर्युस्तरलेक्षणाः ।
पुरभङ्गपरित्रस्ता ग्रहाणामिव देवताः ॥ ११४ ॥
मुखाम्बुरुहहारिण्यस्ता बभुर्नयनोत्पलाः ।
विलोडनभयात्प्राप्ता नलिन्य डुव सेवितुम् ॥ ११९ ॥
विद्रुतेष्वथ लोकेषु तन्त्र चण्डालदारिका ।
तस्य तस्थावसामान्यलावण्यतटिनी पुरः ॥ १.१६ ॥
भ्रूलतालास्यललितं स्तनस्तबकसुन्दरम् ।
उद्यानमिव पुष्पेषोर्बिभ्राणामिव यौवनम् ।। ११७ ।।
गुञ्जाहारानुकारीभिभूषितावरकान्तिभिः ।
गौरी लीलाकिरातीव कटाक्षशिखिपिच्छिका ॥११॥
दीर्घवेणीलता मौर्वी तनुमध्या मनोभुवः ।
त्रिवली मुष्टिमुन्द्रेव क्रीडाकोदण्डचन्द्रिका ।। ११९ ॥
भयानभिज्ञा सा तत्र तस्थौ कौतुकनिश्चला ।
वल्लरीव निवातस्था कुटिलालकषट्पदा ॥ १२० ॥
तां जिघृक्षुः स सहसा कदलीमिव कुञ्जरः ।
ससर्पोद्दण्डशुण्डालो राहुश्चन्द्रकलामिव ।। १२१ ॥
ह्रियमाणां गजेन्द्रेण वीक्ष्य तो चकितेक्षणान् ।
ग्रस्तं रूपं गता कान्तिरिति पौराः प्रचुक्रुशुः ॥ १२२ ॥
मातङ्गानामियं लक्ष्मीः कामिनीति मतङ्गजः
रन्तुं करेण पस्पर्श सहसा त्यक्तविक्रियः ॥ १२३ ॥
अतिचन्द्रामृतः कोऽपि परिरम्भो मृगीदृशाम् ।
पशवोऽपि यमासाद्य भवन्ति सुखनिश्चलाः ।। १२४ ॥
(तत्स्पर्शमीलिताक्षं तं विलोक्य करिणं जनाः।
अहो चित्रमहो चित्रमित्यूचुः कौतुकाकुलाः) ॥ १२९ ।।


२, रक्तन' ख. ३. एतत्कोलान्तर्गतपाठःख-पुस्तके त्रुटितः,