पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०८
काव्यमाला ।

कालेन पालकस्याद्य सुतायोज्जयिनीपतेः ।
अवन्तिवर्धनाख्याय वितीर्णा तेन मानिना ॥ १० ॥
ततो मया माययेयं हृता मानुषरागिणी ।
स्त्रीकृते को हि सहते वीरो न्यक्कारमात्मनः ॥ १०१ ॥
इत्युक्तवाक्यः स ययौ मौनतां परदारहृत् ।
पालकस्य स्नुषा चासौ मुक्ता सुरतमञ्जरी ॥ १०२ ।।
श्रुत्वा हरिशिखस्येति वचनं वाहिनीपतेः ।
गोपालानुमते प्राह नरवाहो नभश्चरान् ।। १०३ ॥
तदमात्यं च सुनयव्रतं भरतरोहकम् ।
वृत्तं सुरतमञ्जर्यास्ततो विज्ञायतेऽखिलम् ।। १०४ ॥
इति प्रभुगिरा गत्वा स समादाय खेचरः ।
सभायां न्यस्तवांस्तौ च नरनाथं प्रणेमतुः ॥ १०५ ॥
मातुलेयं परिष्वज्य सोऽपश्यत्तस्य मन्त्रिणम् ।
स च पृष्टोऽवदत्कन्यावृत्तं भरतरोहकः ॥ १०६ ।।
अस्ति वत्सेश्वरादिष्टः पालको लोकपालकः ।
वीरः प्रशास्ति बसुधां बसुधामशतप्रदः ॥ १०७ ।।
ततः कदाचित्संप्राप्तपुर्यामुदकदान्तिके ।
महोत्सवे पौरजनो बभूवाबद्धकौतुकः ।। १०८ ॥
हत्वा चण्डमहासेनो दैत्यमङ्गारकं पुरा ।
प्रत्यब्दं तद्गिरा चक्रे वारिदानोत्सवस्थितिम् ॥ १०९।।
ततो महोत्सवारम्भो भूषिताशेषमण्डले ।
यात्राकुलेषु लोकेषु प्रहृष्टो निर्ययौ गजः ॥ ११० ।।
स निर्गतो लम्बमानचरणालानशृङ्खलः ।
भारपीडाभयेनेव भोगीन्द्रानुगतो बभौ ॥ १११ ॥
स लेभे लोलमत्तालिवलयश्यामलै रदैः ।
मन्थोत्थकालकूटाम्बुसिक्तमन्दरविभ्रमम् ॥ ११२ ॥


१. यिना' स. प्राचामुन्दकदा ख... 'क्ष'