पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८. सुरतमञ्जर्याभ-कुरङ्गाख्यायिका ।।
६०७
बृहत्कथामञ्जरी ।

प्रसन्नतरुसच्छाये निर्वैरहरिकुञ्जरे।
प्रणम्य साश्रुनयनः प्रोवाच नरवाहनः ॥ ८८ ॥
मातुल स्नेहजलधिं जनकं जननी च ताम् ।
र पुनर्वत पश्येयमित्युक्त्वा कश्मलं ययौ ॥ ९ ॥
तं शोकविवशं वीक्ष्य विद्याभृच्चक्रवर्तिनम् ।
गोपालः प्राह मा मैवं कृथास्त्वं धैर्यभूधरः ॥ ९ ॥
राजन्दलितकर्पूरपरागविशदं यशः ।
जगत्सु गीयते यस्य न शोच्यः स पिता तव ।। ९१॥
सा च चारित्रसावित्री सौभाग्यगिरिपुत्रिका ।
याता वासवदत्ता ते धन्या कीर्तिसरस्वती ॥ १२ ॥
मातुलस्येति वचसा मन्दशोकः सहानुगः ।
तत्रैव तस्थौ विद्याभिः कल्पितोदारमन्दिरः ॥ ९३ ॥
इति गोपालसंन्यासकथा ॥ ३ ॥
ततो विद्याधराधीशैर्मुनीन्द्रैश्च सह स्थितम् ।
व्यजिज्ञपत्समभ्येत्य प्रणतो वाहिनीपतिः ॥ ९४ ॥
कन्या लावण्यपीयूषलहरी हरिणेक्षणा।
विक्रोशन्ती हृतास्मीति सोचिता सा मया विभो ॥ १६ ॥
को हि देव भवद्वीर्यरक्षितो व्योममण्डले।
कर्तुं लङ्घितमर्यादः सहसा विप्लवं क्षमः ।। ९६ ॥
स मया ललनाचौरः पृष्टः प्राह विहाय ताम् ।
संरम्भललितोत्तालमाल्यशेखरषट्पदः ॥ १७ ॥
अहं भदनवेगस्य पुत्रो विद्याधरप्रभोः ।
जातः कलिङ्गसेनायामितो नाम नभश्चरः ॥ ९८॥
इयं मतङ्गदेवेन पुत्री सुरतमञ्जरी ।
विद्याधरी पुरा मह्यं दत्ता वाचैव सुन्दरी ।। ९९ ॥


२. 'भक्षिता' ख. ३. दरवेनस्य' ख.

सय ताम् । १. गच्छत्वं ख.