पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०६
काव्यमाला ।

अस्मिञ्शरीरकुसुमे भृङ्गवजीविते स्थिते।
चपलेषु न भावेषु ताटस्था ममतोचिताः ॥ ७७ ॥
परिच्छिन्नाशिनः किऺ मे कोटिभिर्भूरिसंचयैः ।
न पश्यामि गतः किंचित्कोऽयं सर्वग्रहो मम ॥ ७८ !!
अपर्याप्तसमस्तेच्छाः सक्ता दारैर्धनैः सुतैः ।
कालव्यालसमाक्रान्ता नीयन्ते हन्त जन्तवः ॥ ७९ ॥
तरङ्गतरलैरर्थैर्भोगैर्भ्रूभङ्गभङ्गुरैः ।
मुहूर्तशेषैस्तारुण्यैरविलब्धो रराम कः ॥ ८ ॥
आत्मयज्ञात्मपुण्यानामात्मतीर्थोपसेविनाम् ।
त्यक्तापमानस्पर्शानां नैव शोचन्ति बान्धवाः ।। ८१ ॥
जरन्मृगः शृङ्गमिव त्वचं वृद्ध इवोरगः ।
पक्षीवोन्मथितं शालं बन्धमुज्झति तत्त्ववित् ॥ १२ ॥
भावाः स्वभावविशरारव एव ताव-
त्संश्लेषलेखदृढरागि मनश्च तेषु
तत्सर्वथा बहुवियोगविवाकुलानां
शान्त्यै मणिस्तनुभृतां विततौ विवेकः ॥ ८ ॥
इत्युक्त्वा पौरपुरतो बान्धवास्तपसे गतः ।
कश्यपस्याश्रमं श्रीमानसिताचलकन्दरम् ॥ ८ ॥
इति विद्यानिगदितं निशम्य नरवाहनः ।
जगाम मातुलं द्रष्टुं सुहृद्भिः सह सानुगः ॥ ८५ ॥
दयिताध्यासितपदं विमानं कमलासनम् ।
आरुह्य व्योममार्गेण सोऽविशत्कश्यपाश्रमम् ॥ ८६ ॥
प्रणम्य कश्यपं तत्र गोपालसचिवं ययौ ।
तं विलोक्य जटापुञ्ज व्यञ्जितोरुतपःप्रभम् ॥ १७ ॥


स्लका र १. निजाम' स्व. ३. ताले ख. ४. 'बद्ध