पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८. सुरतमञ्जर्याम्-गोपालसंन्यासकथा ।
६०५
बृहत्कथामञ्जरी

विकोशाशापलाशेऽस्मिन्ससाराभसरोरुहे ।
कालभृङ्गः पिबत्येव जनकिञ्जल्कमञ्जसा ॥ १५ ॥
तेजो नास्ते गुणाः सा श्रीस्तत्सुखं ताश्च केलयः ।
कालसंकल्पकलया नीयन्ते स्मृतिशेषताम् ॥ ६६ ॥
विकचत्कवलक्रीडा यस्य ब्रह्माण्डपिण्डकैः।
सर्वऺकषाय कालाय नमस्तस्मै महाशिने ॥ १७ ॥
इति तद्वचनन्यस्तशोकाग्निर्नरवाहनः ।
भर्गग्रस्तविषस्याप दुग्धाब्धेरुपमाऺ शनैः ॥ १८ ॥
गोपालचरितं ज्ञातुं विसृष्टा पुनरागता ।
विद्या विद्याधरेन्द्राय ततः सर्वं न्यवेदयत् ॥ १९ ॥
देव वत्सेश्वरादिष्टं दत्वा राज्यमुदारधीः ।
पालकाय स्वयं भ्रात्रे गोपालस्तपसे गतः ॥ ७० ॥
प्रणयात्प्रार्थ्यमानोऽपि स पौरैरनुयायिभिः ।
जटावल्कलभृत्प्राह न्यस्तसंसारवासनः ॥ ७१ ॥
स्मेरचामरहासिन्यो वल्लभाः कस्य न श्रियः ।
किंतु ताः पवनालोलकदलीदलचञ्चलाः ॥ ७२ ॥
सुखिनो जातनिर्बन्धकर्मबन्धो हि वासना ।
विशरारुः समाहारः सर्वाग्रहपरिग्रहः ॥ ७३ ॥
तृष्णातन्तुरनाद्यन्तो बिसानामिव देहिनाम् ।
सहजोऽन्तस्थितस्तस्य चिरादामूलमुद्धृतिः ॥ ७४ ।।
आशालतावलयितऺ बद्धमूलमविद्यया ।
को हि पातयितुं शक्तः सुखेन भवपादपम् ॥ ७९ ॥
धनपुत्रकलत्रेषु स्वयमेवार्जितेष्वहो ।
अवसन्ना विनश्यन्ति क्षुद्राः क्षौद्ररसेष्विव ।। ७६ ॥


१. 'देजनास्ते ख.. २. 'पि मानसः स्त्र, ३. 'वलमू ख.