पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०४
काव्यमाला ।

ध्रुवं न कुर्युर्मुनयस्तपांसि विजने वने ।
यदि न स्युरमी भावाः पर्यन्तविशदारवः ॥ १३ ॥
लक्ष्मीरम्भाकुठारस्य भोगाम्भोदनभस्वतः ।
बिलासवनदावाग्नेः को हि कालस्य विस्मृतः ॥ ५४ ॥
न गुणा हीनविद्यानां श्रीमतां क्षीणसंपदाम् ।
कृतान्तपण्यशालायां समानः क्रयविक्रयः ॥ १५॥
(अन्धस्य दर्पणेनेव गीतेनेव हतश्रुतेः ।
गतस्य कोऽर्थः शोकेन नेक्षते न शृणोति यः) ॥ १६ ॥
अकस्मात्संगतो नाम यद्यकस्माद्विनङ्क्ष्यति ।
शोकः किं तत्र सर्वे हि यान्ति चायान्ति जन्तवः ॥ १७ ॥
अश्रुतिर्बन्धुतां धत्ते कथं नष्टस्य नश्वरः !
स्कन्धेन पङ्गुना पङ्गुर्बत वर्त्मनि नीयते ॥ १८ ॥
जायते क्षणदृष्टेषु स्नेहो दुःखाय देहिनाम् ।
ममायमिति मुग्धानां नासौ तेषां न तस्य ते ॥ १९ ॥
प्रयाति चपला लक्ष्मीः श्रवत्यायुरलक्षितम् ।
इति वस्तुस्वभावेऽसिन्कोऽनुशोचति तत्त्वधीः ॥ ६ ॥
गताञ्शोचति को नाम यः प्रातः शोच्यते परैः
छिन्नहस्तो विहस्तश्च कथं बध्नाति कङ्कणम् ॥ ६१ ॥
रुद्यते जीवतां पुंसां येषां कालभयंकरः ।
निस्तीर्णकालभङ्गास्तु न शोच्या विगतासवः ॥ ६२ ।।
न तज्जगति पश्यामो विचिन्त्य निखिलं धिया ।
दुष्प्रापं यत्प्रयत्नेन न लीढं कालजिह्वया ॥ ६३ ।।
मृगनाभागसगरा निगीर्णा येन हेलया।
जृम्भमाणे महाकाले तस्मिन्को नाम मुच्यते ॥ ४ ॥


कील ख..

३. एतत्कोष्ठानतर्गतपाठः ख-पुस्तके त्रुटितः.