पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८. सुरतमचर्याम्-गोपालसंन्यासकथा ।।
६०३
बृहत्कथामञ्जरी।

 
देव्यो येन सतीव्रतेन च कृता दुरान्नतिः केवला
कालः केवललोलुपः स निखिलाऺ लोकावलीमश्नुते ॥ ४२ ॥
श्रीमत्तत्पृथुहारनिर्भरमुरः शौर्यापराद्रेस्तटऺ
तौ स्तम्भप्रतिभं भुजावपि जगत्प्राकाररक्षार्गले।
कीर्तिः स्वर्गनदी सुवर्णकमलं वक्त्रऺ क्व तातस्य त-
द्दृष्ट्वा पुनरिन्दुवृन्दयशसो धिङ्मे चिरं जीवितम् ॥ ४३ ॥
इत्युक्तवति शोकाग्निसऺतप्ते नरवाहने ।
रुरुदुर्गोमुखमुखा देव्यस्ता बाष्पलोचनाः ॥ ४४ ॥
तेषां करुणमाक्रन्दं श्रुत्वाश्रुलुलितेक्षणाः ।
बभूवुर्भुवनोद्यानकेलिबालकुरङ्गकाः ॥ ४५ ॥
ततो निभृतसंचारा विनयानतदृष्टयः ।
विविशुः शोकविवशा विद्याधरधराधराः ॥ ४६॥
तेषां कुण्डलकेयूरपारागारुणांशुकैः ।
शोकाग्निना दह्यमाना मूर्तेनेवाभवन्दिशः ॥ ४७ ॥
ततः कृतोदकस्नानो वृत्तो विद्याधरेश्वरैः
मातरं साश्रुनयनः शुशोच नरवाहनः ॥ १८ ॥
तं शोकवडवावह्निकथ्यमानमिवाम्बुधिम् ।
वीक्ष्य पिङ्गलगान्धारः प्राह वायुपथस्तथा ॥ ४२ ॥
देव धैर्यव्ययः कोऽयं तवापि महतां कुले।
नहि निःसारसंसारविकाराः प्रभविष्णवः ॥१०॥
नहि शोकः प्रियभ्रंशे कतव्यो वृद्धसेविभिः ।।
भवेऽप्यभावसद्भावे भावा भ्रूभङ्गभङ्गुराः ॥५१॥
एकेऽद्य श्वस्तदपरे तत्परेऽह्नि तथापरे ।
यान्ति निःसीम्नि संसारे कः स्थाता योऽनुशोचति ॥ १२ ॥


'तिललि-ख.

आमा