पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०२
काव्यमाला ।

देवीभ्यां विहृतं हुतं द्विजमुखे नित्यं स्मृतः शंकरः
कर्तव्यं स्पृहणीयमन्यदुचितं शेषं किमस्त्यायुषः ॥ ३३ ॥
उक्त्वेति देव कामारिऺ ध्यात्वा विगलिताग्रहः ।
धैर्येण सह पौराणां प्रययौ पौरवत्सलः ॥ ३४ ॥
चन्द्रार्धमौलिविहितस्तुतिगीतिकाङ्का-
मङ्के निधाय स तथामिमताऺ विपञ्चीम् ।
देवः प्रियाग्रचरमित्रकृतानुयात्रः
सोऽस्ताचलादिव सहस्रकरः पपात ॥ ३५॥
तस्मिंल्लोकत्रयीनेत्रशतपन्त्रावलिप्रिये ।
यातेऽस्तं जगतां मित्रे शोकान्ध्यमभजन्प्रजाः ॥ ३६ ॥
इति वत्सेश्वरभृगुपतनकथा ॥ २ ॥
विद्याधरीवचः श्रुत्वा मूर्छितो नरवाहनः ।
पपात सुहृदामग्रे वज्राहत इवाचलः ॥ ३७ ॥
(विद्याधरीभिरभितः कदलीपल्लवानिलैः ।
वीज्यमानः शनैः संज्ञामवाप्य विललाप सः ॥ ३८ ॥
हा विलासरसावास हा गाम्भीर्यमहोदधे।
हा सप्तभुवनोद्यानफुल्लकीर्तिलतावन ॥ ३९ ॥
हा दाक्षिण्यनिधे देव हा तात सुतवत्सल ।)
कासि मे वचनं देहि वत्सोत्यमृतनिर्भरम् ॥ ४० ॥
अहो नु निरनुक्रोशः सज्जनक्रकचोऽन्तकः ।
कथाशेषः कृतो येन त्वमपि क्ष्माविशेषकः ।। ४१ ।।
स त्वऺ वत्समहीपतेरगणितं रूपेण चन्द्रस्मयः
पेठे न स्तुतिरञ्चिता न रचितश्चित्रं गुणेष्वञ्जलिः ।


कुले खिः । २.तिस्पृहःख. ३.भःख...४. यासचिवमि' ख.

ख. एतकोयन्तर्गत पाठः ख-युन्तके बुटितः, 4 गणितः ख, यामेन बसले