पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/६०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८. सुरतमञ्जर्याम्-वत्सेश्वरभूगुपतनकथा ]।
६०१
बृहत्कथामञ्जरी ।

परस्परानुरागाग्निदग्धौ वीक्ष्य च चण्डिका ।
कुलदेवी तयोर्जीव दिदेशामृतसीकरैः ॥ २२ ॥
इति शूरसेनाख्यायिका ॥१॥
श्रुत्वेति गोमुखवचो मधुलक्ष्मी विलोकयन्
ललास दृष्टिचषकैः पिबन्मदनमञ्चुकाम् ॥ २३ ॥
ततो निशि निशाकान्तकान्तिसंताननिर्झरैः ।
पुरिते भुवनाभोगे सुष्वाप प्रियासखः ॥ २४ ॥
स चन्द्रकान्तपर्यङ्के शशीव निजमण्डले ।
रतिश्रमोन्मिषन्निद्रः स्वप्नेऽनिष्टं व्यलोकयत् ॥ १५ ॥
विबुद्धः शङ्कमानोऽथ पितुर्दैवपराभवम् ।
स लेभे न पुनर्निद्राऺ विरक्तामिव योषितम् ॥ २६ ॥
चिरं चिन्तयतस्तस्य शोकाग्निव्याप्तचेतसः ।
नवोढेवाविदग्धस्य धृतिर्दूरतरं ययौ ॥ २७ ॥
मैत्रीव साधुशीलानां स्त्रीणां परकथेव च ।
सा तस्य शर्वरी शोकात्प्रययौ दीर्घदीर्घताम् ॥ २८ ॥
प्रातर्विसृष्टा प्रज्ञप्तिविद्या तेन तदीक्षितुम् ।
प्राह वत्सेश्वरोदन्तं तूर्णमेत्य नभश्चरी ॥ २९ ॥
याते चण्डमहासेने सभार्ये कीर्तिशेषताम् ।
विधाय पालकऺ वीरं तत्पदे क्षितिपालकम् ॥ ३२ ॥
गोपालकं निवेश्याशु भ्रूभङ्गेनात्मनः पदे ।
कालंजरभृगूत्सङ्गे दिवं वत्सेश्वरो ययौ ॥ ३१ ॥
स दिव्यपुरुषादिष्टं गत्वा यौधिष्ठिरं पदम् ।
भेजे ययातिशर्यातिहरिश्चन्द्रेन्द्रतुल्यताम् ॥ ३२ ॥
भ्रूभङ्गेन विवासिता रिपुवधूभ्रूभङ्गलीलाश्रमा
दृष्टा श्रीः स्वयमर्पिता खसुहृदां मत्तेभकुम्भस्तनी ।


ख. २. निद्रतन्द्रः' ख..३. 'साख.