पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८. सुरतमञ्जर्याम्-शूरसेनाख्यायिका ।]
५९९
बृहत्कथामञ्जरी

इति स निखिलभूभृन्मौलिविश्रान्तकीर्ति-
र्मदकलसुरनारीगीयमानप्रतापः ।
अभिनवजयलक्ष्मीनम्रविद्याधरेन्द्र-
प्रकटमुकुटपीठस्पष्टपादो रराज ॥ १५ ॥
इति क्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यां महाभिषेको नाम सप्तदशो लम्बकः
सुरतमञ्जरीलम्बका।
सुभगाविभ्रमोद्भ्रान्तभूविलासचला श्रियः ।
आकल्पं स्थिरता यान्ति यद्वरात्स शिवोऽस्तु वः ॥ १ ॥
स विद्याधरसामन्तमस्तकन्यस्तशासनः ।
भेजे समस्तकान्ताभिः सरलीलामहोत्सवम् ॥ २ ॥
प्रियाविलासरसिके सानन्दे नरवाहने।
सेवाक्षणमिवासाद्य वसन्तः प्रत्यहरमत ॥ ३ ॥
पल्लवेषु च वल्लीनां मानसेषु च सुनुवाम् ।
कपोलेषु च मत्तानां (रोगः कोऽपि व्यवर्तत ॥ ४ ॥
नमोऽस्तु स्थाणवे तस्मै प्लुष्टो येन मनोभवः ।
सहकारमदग्धैवमित्यूचुः प्रोषितास्तदा ॥ ५ ॥
नवसंभोगसंगीततरङ्गमलसद्रवः ।
लुलोठ पिककण्ठेषु मान्मथो जयाडण्डिमः ॥ ६ ॥
सहसाङ्कुरितो लेभे मदनः कामपि श्रियम् ।
तटीषु वचनान्तानां) हृदयेषु च रागिणाम् ॥ ७ ॥
कूजन्मधुकरश्रेणीवितता चूतमञ्जरी ।
बभार तारकारमरकार्मुकविश्रमम् ॥ ८ ॥
स्तबकाः सिन्दुवारस्य तरलभ्रमराकुलाः ।
ययुः सितासितरुची मधुलक्ष्मीकटाक्षताम् ॥ ६॥


१. तरुणीबि' ख. २. श्च यः' ख.३. "कन्या ख.४, समदें ख५. एत-

रकोट्यन्तर्गतपाठः ख-पुस्तके त्रुटितः,