पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९८
काव्यमाला ।

तत्र विद्यादिकल्पोत्था दिव्याभिप्रायशालिनी ।
राजधानी बभूवास्य रत्नप्राकारतोरणा ॥ १२ ॥
अथाययुः समुद्रेभ्यो रलकुम्भैः सुलोचनाः ।
हेमकुम्भोपमकुचा गृहीत्वाप्सरसो जलम् ॥ ४३ ॥
ततो वायुपथाहूतस्तं विद्याभिर्विहायसा ।
सामात्यः सह देवीभ्यामाययौ वत्सभूपतिः ॥ १४ ॥
यत्नात्पित्राभ्यनुज्ञातः कथंचिद्विनताननः ।
रत्नसिंहासनं भेजे भूषितो नरवाहनः ॥ ४५ ॥
रोहणाद्रेरिवोत्सङ्ग नानारत्नविभूषितम् ।
स बभार महामौलि क्रीडाशैलमिक श्रियः ॥ १६ ॥
अथाभिषेकपुण्याहे विस्तीर्णे अङ्गलोदके ।
आसनार्धं प्रभोभैजे देवी मदनमञ्चुका ॥ ४७ ।।
रतिरस्य स्मृतिभुवो दयितेयमयोनिजा।
कान्ताः श्रुत्वेति नभसो नाक्मानं ययुः पराः ॥ १८ ॥
ततः कुण्डलिनः शूरा मौलिपिञ्जरिताम्बराः ।
तस्य विद्याधरावीशाः प्रणता विविशुः सभाम् ॥ ४९ ॥
मणिकुट्टिमसंप्राप्तप्रांशुरश्मिभृताम्बराः ।
त्रैलोक्यमिव रुन्धानास्ते बभुर्गुलिकाधराः ॥ ६ ॥
अबलश्रियमालोक्य सुतं वत्सनरेश्वरः ।
ब्रह्माण्डं संकटं मेने हर्षसंपूर्णमानसः ॥ ५१ ।।
देवी वासवदत्तापि शच्या पुत्रश्रिया पदम् ।
प्राप्ता कुमारविजयानन्दिनीव सती बभौ ।। ६२ ।।
मङ्गलोदधिकल्लोलश्रीलताकुसुमाकरः ।
हर्षपीयूषजलदः कोऽयभूत्स महोत्सवः ।। ५३ ॥
ततस्तन्यमामध्य कौशाम्बी प्रमताकुलः ।
ययौ व्योम्ना सहामात्यो वत्सराजः प्रियासखः ॥ १४ ॥