पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७. महाभिषेकः ।।
५९७
बृहत्कथामञ्जरी।


ततो मन्दरदेवस्य) विद्याभिरभिपूरितम् ।
बभूव वक्रं कल्पान्तहुतभुग्भीमविश्रमम् ॥ २९ ॥
नरवाहनदत्तोऽथ केशपाशमिव श्रियः ।
खड्गमाकृष्य जग्राह तमुनान्तशिरोरुहम् ॥ ३० ॥
भ्रातरं खड्गसंपातमन्त्रान्तरितजीवितम् ।
दृष्ट्वा मन्दरदेवीति नरवाहनमभ्यधात् ॥ ३१ ।।
भो भो प्रतापचण्डांशो कीर्तिज्योल्लासुधाकर ।
नरवाहनदत्त त्वं त्रातुमर्हसि मेऽप्रजम् ॥ ३२ ॥
इति तस्या वचः श्रुत्वा तं तत्याज नृपात्मजः ।
सन्तः प्रणयभङ्गेषु भीतानां नहि शिक्षिताः ॥ ३३ ॥
स्वस्रा मन्दरदेवोऽश्व मोचितो लज्जया नतः ।
ययौ तपोवनं मानी मुनेः स्वपितुराश्रमम् ॥ ३४॥
विपत्सु च कुलीनानां वियोगेषु च धीमताम् ।
पराजये च शूराणां वृत्तिरेका तपोवनम् ॥ ३५ ॥
ततो धनवतीध्यानादुत्थिते रक्षिते चले।
नरवानदत्तस्य जजम्भे जयडिण्डिमः ॥ ३६ ॥
जम्भारिविजयोद्युक्तं ते समभ्येत्य नारदः ।
त्रिदशैर्नास्ति वो वैरमित्युक्त्वा विमुख व्यधात् ।। ३७ ॥
अभिषिच्यामितिमतिं कैलासे गुलिकाभृतम् ।
कान्तां मन्दरदेवीं तां पित्रा दत्तामवासवान् ॥ ३८ ॥
यन्मुखेनेक्षणच्छायाशबलेनाभवनमः ।
नीलोत्पलदलालोलहेमाजेनेव भूषितम् ॥ ३९ ॥
दत्तामकम्पनाख्येन पित्रा तां प्राप्य सुन्दरीम् ।
तद्वयस्याश्चतस्रोऽन्याः प्रापैकोद्वाहनिश्चयाः ॥ ४० ॥
ततः प्रणम्य श्रीकण्ठं प्रयातो वीक्ष्य शूलिनम् ।
ऋषभस्य गिरेः शृङ्गमभिषेकश्रिये ययौ ॥ ४१ ॥