पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९६
काव्यमाला ।

पुष्पेषुरुदितः कोऽयमस्य शस्त्रैः समुद्यमः ।
इति ताः स्पृहया वीक्ष्य जंगदुर्गुह्यकाङ्गनाः ॥ १६ ॥
ततस्तं प्रस्थितं जेतुं वायुवेगः कृताञ्जलिः ।
व्यजिज्ञपदितो देव न पन्थाश्चक्रवर्तिनाम् ।। १७ ।।
इहास्ते त्रिपुरारातिः सदा संनिहितो हरः ।
विभूतयः सुरेन्द्राणां यत्मसादात्सविग्रुषः ॥ १८ !!
तमुल्लङ्घ्य विरूपाक्षं व्योम्नि यो याति मोहितः।
पतति भ्रष्टविद्योऽसौ क्षीणपुण्य इव ग्रहः ।।
शंकरेणैव विहिता गुहेयं चक्रवर्तिना।
गिरिं विदार्य शूलेन स ते मार्गः शिवप्रदः ॥ २० ॥
इति विद्याधरपतिः सचिवानां च भाषितम् ।
श्रुत्वा प्रणम्य चण्डीशं गुहारन्ध्रेण निर्ययौ ॥ २१ ॥
त्र्यम्बकेन धृतां तत्र कालरात्रिं प्रणम्य सः ।
पुरं मन्दरदेवस्य प्रतस्थे विजयोत्सुकः ॥ २२ ॥
देवमायं महाकालं जित्वा विद्याधरेश्वरम् ।
तन्महावाहिनीपूर्णसेनाब्धिः प्रबभौ विभुः ॥ २३ ॥
ततोऽदृश्यत संरब्धो विद्याधरवलाप्रजः ।
प्रलयान्बुधरध्वानधीरः सपदि मन्दरः ॥ २४ ॥
अथ युद्धमभूद्धोरं विद्याधरंधराभुजाम् ।
मौलिरत्नविनिष्पाति खङ्गज्वालाजटोत्कटम् ॥ २६ ॥
तद्रक्ततंटिनीसिक्तफुल्लाशोकवनच्छविः ।
पद्मरागाचलः क्षिप्रं बभूव स्फटिकाचलः ॥ २६ ॥
ततो धनवतीविद्यामोहिते वाहिनीद्वये ।
स्वयं मन्दरदेवस्य पुरोऽभून्नरवाहनः ॥ २७ ॥
चतुर्विद्याधरपतौ (सायकास्तीक्ष्णपक्ष्मणः ।
नरवाहननामाङ्काः कटाक्षाः समरश्रियः ॥ २८ ॥


"माहितः ख. २. यह स्व. १४३, एतत्कोष्ठान्तर्गत पाठः ख पुस्तके त्रुटितः-