पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-श्रीधराख्यायिका ।।
५९१
बृहत्कथामञ्जरी

इति तद्वचसा किंचिल्लज्जानतविलोचना ।
सावदत्कम्पसंरम्भनिःस्वासस्खलिताक्षरा ॥ ६.०३ ॥
नाहं न गम्या ते कान्त प्रच्छन्नयतकामिता।
दृष्टपञ्चनरा गम्या किं न नाम श्रुतं त्वया ॥ ६०१ ॥
इहैवासेविता नित्यं मया प्रच्छन्नकामुकाः ।
येषां रागथाबन्धेष्वाप्तं हस्तादिदं मया ॥ ६०५ ॥
इत्युक्त्वांशुकपर्यन्तबद्धं सा समदर्शयत् ।
रागाङ्गुलीयकशतं नानाधातुविनिर्मितम् ॥ ६०६ ।।
तद्दृष्ट्वा श्रीधरः कर्णी पिघायापसृतस्ततः ।
सा विबोध्य पतिं प्राह कोपम्पतरङ्गिता ।। ६७७ ॥
अनेन नाथ पान्थेन गादं निद्रावृते त्वयि ।
कृताहं नष्टचारित्रा मुखं विष्टभ्य पाणिनाः ॥ १०८ ॥
इति प्रियावचः श्रुत्वा खड्गमाकृष्य दुर्मदः
सकोपः श्रीधरं हन्तुमुद्ययौ सुकुटीमुखः ॥ ६०९ ॥
अपरास्य सती भार्या सा निर्मूषणविग्रहा।
असतीव्रतमावेद्य कोपानलमवारंवत् ॥ ६.१७ ॥
सोऽप्यङ्गुलीयकशतं तस्या दृष्ट्वा पराञ्चले ।
प्रसाद्य विप्रं विदधे तो पापां कृतनासिकाम् ॥ ६.११ ॥
सतीव्रतप्रत्ययाय दशा दग्ध्वा महातरम्
तत्रापरापि तज्जाया दृशैव समजीवयत् ॥ ६.१२
ततः सोऽपि द्विजसुतौ प्राह प्रीतिरसाकुलः ।
काश्मीरे भवशर्माख्यो द्विजोऽहमभवं पुरा ॥ ६ १३ ॥
अहं कदाचित्सद्धर्मश्रमणादाहितव्रतः ।
निवारितो ब्रह्मचोदनयैव बलान्निशि ॥ ६११. ॥


२. 'कथां तां धिक् दत्तं ड्-'ख. ३. 'नानाङ्गु ख.