पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५९०
काव्यमाला ।

पानं च पृथुकर्पूरसहकाराधिवासितम्
ममज्जुर्लघुसंचारास्तमिन्नेव सरस्तरे ॥ ५९२ ॥
ततो दिव्याम्बरधरः कान्तो रुचिरकुण्डलः ।
मन्दारमालाधबलः कोऽप्युत्तस्थौ महाभुजः ।। ५९३ ।।
अथ पर्यङ्कशयने तत्र तस्य विलासिनः ।
निषण्णस्य मुखाम्भोजानिर्ययौ कापि कामिनी ॥ ६९४ ॥
सुतारहारधवला रणन्मुखरभेखला ।
भेदविस्खलितक्वाणा कलहंसीव शारदीः ॥ १९५ ॥
तस्यामभ्युदितायां च द्वितीयाप्याययौ वधूः ।
विभूषणाङ्गी ललिता लावण्येन विभूषिता ।। ५९६ ॥
ततः पूर्वोदितां कान्तां स दिव्याभरणोज्ज्वलाम् ।
जग्राह कण्ठे सोत्कण्ठं सैविलासं ससंभ्रमम् ॥ ५९७ ।।
समेत्य सुरतश्रान्ते तस्मिन्निद्रामुपागते ।
पादसंवाहनं चक्रे सा परा तस्य सुन्दरी ॥ १९८ ।।
लक्ष्मीधरश्रीधरौ च तदृष्ट्वा कौतुकाकुलौ।
अवतीर्य तरुस्कन्धात्तदन्तिकमुपागतौ ॥ १९९ ॥
विनिद्रनयना साथ कान्तकण्ठावलम्बिनी ।
तौ दृष्ट्वा लघुसंचारा समुत्तस्थौ स्मराकुला ॥ ६०० ॥
भर्तुः पिधाय वदनं निद्रालोससा शनैः ।
सा श्रीधरमुपेत्याह निर्लजं भज मामिति ।। ६०१ ॥
सोऽब्रवीदिव्यरूषण कान्तेनानेन सुन्दरी ।
रमस्व परदारेषु मातनों माइशां गतिः ॥ ६०२ ॥


1. "दृष्टाः संपूर्य नरालंकारवासिताम् २० तस्य ततस्तस्माधि-- ख.

आताख मेहसाव . स्थितायां च निरगादपरा वधू' दिमाखा विलासरमविनमा ख. शितैस्तासु ख. सो दृष्टा! ख. क्षण इति स्याह पाख्यौ