पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-श्रीधराख्यायिका ।
५८९
बृहत्कथामञ्जरी

ग्रामीणो नगरे भुक्त्वा भोज्यं कश्चित्लुसंस्कृतम्
प्रधानं लवणं कृत्वा तन्मुष्टिं समभक्षयत् ।। ५८० ॥
एकस्मिन्नेव गोक्षीरं ग्रहीष्यामि दिने बहु ।
इति मासेन गां मूखों दुदोहन च सा ददौ ॥ ५८१
कपित्थैस्तरुणैः कोऽपि खल्वाटो मूर्ध्नि ताडितः ।
सहते स व्यथा मूखों माधुर्यरसगौरवात् ॥ १८२ ।।
इत्यनेकमूर्खाख्यायिका ।। ४१ ॥
गोमुखेनेति कथिते कथां पृष्टो विनोदिनीम् ।
नरवाहनदत्तेन सुहृत्प्राह तपन्तकः ।। १८३ ॥
मालवे विषये विप्रः श्रीमानासीद्यशोधरः ।
लक्ष्मीधरश्रीधराख्यौ तस्याभूतां प्रियौ सुतौ ॥ १८४ ॥
कदाचित्पितुरादेशात्तौ विद्यार्थितया गतौ ।
देशान्तरं विनोद्योगं विद्या कथमवाप्यते ॥ ५८५ ॥
अटवीं तौ समासाद्य दूराध्वश्रमपीडितौ ।
पृथुपादपसुच्छाये सरस्तीरे न्यषीदताम् ।। ९८६ ॥
ततः सात्वा फलाहारौ यातेऽस्त तिग्मरोचिषिः ।
भिन्नाञ्जनचयश्यामस्तिमिरैः पूरितेऽम्बरे ॥ ९८७ ॥
महातरुं समारुह्य तस्थतुध्रिशङ्कया।
तौ बालपल्लवैः कृत्वा शयनं विटपान्तरे ॥ ५८८ ।।
अथोदिते गजवधूनवदन्ताङ्गुरविषिः ।
त्रुट्यत्तमःकञ्चुकाग्रे शशाङ्के यामिनीस्तने ॥ १८९ ॥
सरोमध्यात्समुत्थाय क्रमेण परिचारिकाः ।
संमार्ज्य तां च वसुधामाकीर्य कुसुमोत्करैः ।। ५९० ।।
आस्तीर्य हेमपर्यङ्के शय्यां स्वच्छोत्तरच्छदाम् ।
निधाय रत्नपात्रेषु दिव्यमाल्यविलेपनम् ॥ ५९१ ॥


१. 'सेहे तीव्यथा' ख. २. ख-पुस्तके तुः 'अबुधाख्यायिका इत्येवमुपलभ्यतं.

३. 'मृदुः ख. ४. 'कृताहा- ख. ५.