पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८८
काव्यमाला ।

एवं मतिमतामस्ति तिरश्चामपि कौशलम् ।
हासंकारं त्वबुद्धीनां शृणु पुंसां विचेष्टितम् ।। ५६८ ॥
वणिङ्मूर्खः पुरा चक्रे द्वीपेष्वगरुविक्रयम् ।
कपर्दकेन तत्सर्वं ददौ विक्रयमित्यसौ ॥ ५६९ ।।
चतुः पञ्चाबुधः कश्चिदीर्घलोमनिवृत्तये ।
वह्रौ चिक्षेप तेनास्य स निःशेषमदह्यत ॥ ५७० ॥
भूक्त्वा भर्जत्तिलान्क्वापि पुरा मूर्खेण केनचित् ।
भ्रष्टा एव तिला उप्तास्तेनास्योजहसुर्जनाः ॥ ५७१ ॥
अबुधो भाण्डदारिद्यादेकस्मिन्निदधे घटे।
वह्निं जलं च कार्याथै येनासौ हास्यतां ययौ ।। ५७२ ॥
हत्वा गुरोः सुसुप्तस्य कश्चित्सुस्पष्टनासिकाम् ।
वक्रां नासां स्वभार्यायाश्छित्वा तां समरोपयत् ।। १७३ ॥
अन्विष्टा त्वत्कृते कन्या दत्ता जातस्तवात्मजः ।
मिथ्या गिरैवेत्यकृती धूनिविणः कृतः ॥ ५७४ ।।
कश्विद्व्याधाच्च जायाया लब्ध्वालंकरणं बहु ।
रशनामधुधः कण्ठे हारं च जघनस्थले ॥ १७५ ॥
वह्निना शोधितं हेम क्वचिदृष्ट्वा स्वकर्पटम् ।
मलिनं ज्वलने कश्चिदबुधः शुद्धये व्यधात् ।। ५७६ ॥
खर्जूरीफलमाहर्तुं यातैः कैश्चिदबुद्धिभिः ।
दुरारोहतया छिन्नाः सर्वे खर्जूरपादपाः ॥ ५७७ ॥
कस्यचिद्दिव्यनेत्रस्य निधानशतदर्शिनः ।
मा गच्छत्विति भूपालो नेत्रे मौदिपाटयत् ॥ १७८ ॥
दृष्ट्वा गोपालकः कश्चिद्गामेकां सिंहभक्षिताम् ।
खण्डेन किं गोकुलेनेत्यन्याश्चिक्षेप भूधरान् ॥ ५७९ ॥


१. हासकारिख, २. भ्रष्टति' ज. ३. ते स्व. ४. दृष्ट्वा' .

भूधारख जीवितः ख. "प्रखं.