पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-नकुलाख्यायिका !]
५८७
बृहत्कथामञ्जरी ।

इत्याशां नैव कुर्वन्ति धीमान्भावेषु भाविषु ।
श्रुत्वेति ब्राह्मणीवाक्यं तूष्णीमासीदिजः क्षणम् ॥ ५९७ ॥
इति घटाख्यायिका ॥ ३८ ॥
जाते ततः सुते विप्रः कदाचिन्निर्गतो गृहात् ।
रक्षायै नकुलं धृत्वा पुत्रस्य गृहयोषितम् ।। ९९८ ॥
अथ सर्पं महाभोग बालहिंसार्थमुत्थितम् ।
नकुलः खण्डशः कृत्वा रक्ताक्तो निर्ययौ गृहात् ॥ ६५९ ॥
तमभ्येत्य द्विजो दृष्ट्वा शिशु मत्वा हतं सुतम् ।
अयोमुखेन कोपान्धो जघान नकुलं क्षणात् ॥ ५६० ।।
गेहं प्रविश्य निहतं वीक्ष्य सर्प भयंकरम् ।
स्थितं च बालक स्वस्थं शुशोचानुशयाकुलः ॥ १६१ ॥
असम्यग्वीक्षितं द्रष्टुं पण्डितो नानुवर्तते ।
अनुकारात्परिभवं याति नापितवनरः ॥ ५६२ ॥
वणिक्क्षीणवनोऽपश्यत्स्वो मिस्त्रयं पुरा ।
तैश्च स व्याहृतः सोऽस्मान्हत्त्वा दक्षिणमास्यसि ॥ ५६३ ॥
स प्रबुद्धो वणिक्प्रातर्दृष्ट्वा भिक्षुत्रयं पुरः ।
अताडयत्ताडिताश्च बभूवुर्धनराशयः ।। ६६४ ॥
तद्वृत्तं नापितो दृष्टा वशिग्वेश्मनि दुर्मतिः ।
धनार्थी स्वगृहं गत्वा जधान किल भिक्षुकाल ।। ६६६ ॥
तं भिक्षुकवधाद्राजा शुनि जग्राह नापितम् ।
अत्यनालोच्यकार्येषु प्रवृत्तिर्दुःखकारणम् ।। ६६६ ॥
इति नापिताख्यायिका ॥ ३९ ॥
(इति जायावचः श्रुत्वा ब्राह्मणोऽभूदवात्मखः ।
ब्राह्मणार्थेन नकुलाहतः स्वर्गेऽभवल्लुखी ॥ ६६७ ।।
इति नकुलाख्यायिका) ॥ ४॥


१. एतरकोष्टान्तर्गतः पाठः क-पुस्तके लोपलभ्यते.