पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८६
काव्यमाला ।

पुरा स्वर्परघाताङ्कललाटः पुरुषो नृपम् ।
अवाप्य विपुलां वृत्तिं लेभे विक्रमलाञ्छितः ॥ १४६ ॥
कालेन पृष्टो राज्ञा च स प्रहारस्य कारणम् ।
पूर्यद्घटप्रपातेन स्वपराधातमभ्यधात् ॥ ५४७ ।।
तज्ज्ञात्वा राजपुरुषैनिरस्तः प्रच्युतः क्षणात् ।
इति केवलसत्येन न भवन्ति हितश्रियः ॥ ९४८ ।।
इति सत्याख्यायिका ॥ ३६ ॥
इत्याकर्ण्य हरेर्वाक्यमनुतापहताशयः ।
शिशुमारो ययौ मन्दं ननन्द च चिरं कपिः ॥ ५४९ ॥
इति वानरशिशुमाराख्यायिका ॥ ३७॥
गौडेषु देवशर्माल्यो बभूव ब्राह्मणः पुरा ।
स हृष्टो गर्भिणी जायां निजामवद्दुत्सुकः ।। १६०॥
भविष्यत्येव पुत्रस्ते मम वंशविवर्धनः ।
इति श्रुत्वाब्रवीज्जाया भाविषु प्रत्ययः कथम् ॥ १५१ ॥
आशां विधाय भावेषु यो हि भावेषु हृष्यति ।
स सज्जते सक्तुघर्ट भङ्क्त्वैव स्वयमग्रतः ॥ ६५२ ॥
भिक्षार्जितं सतुघट निधाय ब्राह्मणः पुरा ।
अचिन्तयदनावृक्षां तस्य मूल्यं चतुर्गुणम् ॥ ९५३ ॥
तन्मूल्ये छागिकाः कृत्वा ताभिः प्राप्स्यामि गोधनम् ।
कृषिं तेन समाधाय परिणेष्यामि कन्यकाम् ॥ ६९४ ॥
महाधनस्य पुन्नों मे सोमशर्मा भविष्यति
रोदिष्यति सुते तस्मिन्स्तनपानाय तत्क्षणम् ।। ६५५: ।।
ताडयिष्यामि लगुडैगृहिणीमतिकोपनः ।
इति श्रमेण लगुडोत्क्षेपेटमताडयत् ॥ १५६ ॥
भग्नं सक्तुघटं दृष्ट्वा ततो लज्जा समाययौ ।


अपक्ष