पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि सत्याख्यायिका ।
५८५
वृहत्कथामञ्जरी ।

सिंहोऽब्रवीद्यदि भवेत्कृतश्चित्सरसोद्धृतम् ।
गार्दभं कर्णहृदयं तेन शाम्यति मे गदः ॥ ६३६ ॥
तच्छ्रुत्वा जम्बुको गत्वावदद्वजकगर्दभम् ।
भारपीडाकृशोऽत्र त्वं वनमेवैहि वृत्तिमत् ॥ ५३६ ॥
तिष्ठन्ति तत्र गर्दभ्यस्तच्छ्रुत्वा स समाययौ ।
तस्य पृष्ठे ययावुग्रः स सिंहखनदुःसहः ॥ १३७ ।।
मुक्तः कृच्छ्रेण दुद्राव ततः सपदि रासभः ।
क्रोष्टा विलोक्य शार्दू निनिन्द मृदुवादिनम् ॥ १३८ ।
गर्हयित्वा मृगपति प्रोवाचाभ्येत्य गर्दभम् ।
अपक्रान्तोऽसि किं मूर्ख गर्दभ्यो हारितास्त्वया ।
प्रथमं सर्वसिद्धीनां सोढा विघ्नं सुखीभवेत् ॥ ९३९ ॥
इति तस्य गिरायातं खरं हत्वा मृगेश्वरे ।
स्वानाय याते तत्कर्णहृदयं जम्बुकोऽहरत् ।। ६४० ॥
क्व याते तत्समभ्येत्य ब्रुवाणे वारणद्विषि ।
क्रोष्टावदन्न जानीये प्रकृतः सरलाशयः ।। ५.४१ ।।
अकर्णहृदयो भो यदि न स्यादयं खरः ।
गतोऽपि दृष्टत्रासोऽपि किं पुनर्व्यसनं विशेत् ।। ५४२ ।।
इति स्वराख्यायिका ।। ३५ ।।
गच्छाधुना न ते मित्रमहं कुटिलचेतसः ।
शिशुमारो निशम्येति वानरं प्राह दुःखितः ॥ ९४३ ॥
न ददाति प्रतिश्रुत्य यः सत्यपदविच्युतः ।
निरालम्बी तमो याति स शिलाशतताडितः ।। ६३४ ॥
वानरस्तद्वचः श्रुत्वा प्रोवाच मतिरस्ति ते ।
न पुण्यं सत्यमात्रेण सत्यान्नाशोऽस्ति केवलात् ।। ५४५ ॥


१.'ह' ख

..' हि ख.... 'पपाताशुख. ४. 'हस्तस्य दुःसहम् स्व. 'तत्कृच्छ्रेण स दुगाव' ख. ६. 'धातिनम् ख. ७. 'मेस.