पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८४
काव्यमाला ।

मित्रैकसेविनो जाया शिशुमारस्य दुःखिता।
बभूवास्वस्थहृदया क्षयरोग(निपीडिता ॥ ५२५ ॥
तां वीक्ष्य शिशुमारोऽपि दुःखितस्तत्सखीगिरा।
वानरस्यैव हृदयं विवेद व्याधिभेषजम् ।। ५२६ ।।
स गत्वा वानर माह करे गाढ़) निपीड्य तम् ।
मित्र जाया ममावस्था हृदयं देहि भेषजम् ॥ ९२७ ॥
श्रुत्वेत्यशनिसंकाशं विषण्णो वानरोऽब्रवीत् ।
किं पूर्वमेव नोक्तं मे(....
""पश्चाद्दोषः पलाण्डवत् ।
पलाण्डुदोषमादाय प्राहुर्नगररक्षिणः ॥ ५२९ ॥
रूपकाणां शतं देहि लगुडाँनों सहख वा ।
पलाण्डोर्भक्षयेदं या शतं कटुरसोत्कटम् ॥ १३० ।।
तच्छ्रुत्वाददे भोक्तुं पलाण्डं तेन तापितः ।
सेहे प्रहारांस्तैयस्तो रूपकानां शतं ददौ ।। १६१ ॥
इति चौराख्यायिका) ॥ ३४ ॥
उदुम्बरं समारुह्य दास्यामि हृदयं तव ।
इत्युक्त्वा वृक्षमारुह्य भयं त्यक्त्वा तमब्रवीत् ।। ५३२ ।।
व्रज दुष्टाशय सखे विज्ञातोऽसि चिरान्मघर
नास्मि गर्दभवन्मूर्खो वञ्चनीयो भवद्विधैः ॥ ६३३ ॥
व्याधिक्षामं पुरा सिंहं जम्बुकः सचिवोऽब्रवीत् ।
केन नश्यति ते ब्याधिरवसन्ना क्यं प्रभो ॥ ५३४ ।।


१. पृष्ठक न. २. दुधा ख. ३, एतरकोष्ठकान्तर्गतः पाठः अ-पुस्तके श्रुटितः.

४. ये कोलकातातचीराख्यायिका पुस्तकद्वयलब्धाषि खण्डितास्फुटार्थी, कयास- रित्सागरे । न नोमलचते. देषु ख.. डु चौरमादाय स. ७. नि सहान व ८ जियेद का वचः श्रुत्वा न. १०. 'सोऽहूं. अहाना साना तिस.