पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६: शक्तियशसि-चौराख्यायिका ।
५८३
बृहत्कथामञ्जरी


सर्पस्तडागमासाद्य वृत्तिच्छेदकृशः पुरा ।
धूर्तः प्रोवाच मण्डूकान्पुरा दृष्टो मया द्विजः ॥ ५१४ ॥
तच्छापादेय यातोऽस्मि सर्वमण्डूकवाहनम् ।
मण्डूकराजस्तच्छ्रुत्वा चक्रे तं वाहनं मुदा ॥ ९१९ ॥
स्कन्धे गृहीत्वा मण्डूक स नानागतिकोविदः ।
ययाचे भोजनं मन्दं वपुः कृत्वा मृदुखरः ॥ ६.१६ ।।
शनैः शनैस्तदादेशात्सर्वमण्डूकसंक्षयम् ।
चक्रे शत्रुगृहेष्वेवं तिष्ठत्कार्यवशागतः ॥ ५१७ ॥
इति मण्डूकाख्यायिका ॥ ३१ ॥
वृद्धवाक्यं हितं राज्ञा श्रोतव्यं तत्त्वया सदा ।
श्रूयते हंसनिचयो वृद्धवाक्येन रक्षितः ।। ५१८ ॥
इंसानामधिपः पूर्वं क्षीरोदो नाम शाल्मलौ ।
उवास तमुवाचार्थं स भृत्यो वृद्धसारसः ॥ ५१९ ॥
व्यधिरुप्तमिदं बीज विनाशाय कुलस्य नः ।
निरस्यतां तदित्याह कश्चिच्छुश्राव नो वचः ॥ ९२० ॥
ततः कालेन वृद्धेषु हंसेषु खगजीविभिः ।
वृद्धहंसोऽब्रवीदत्र तिष्ठन्तु कृतके मुताः ॥ ५२१ ॥
तथेति निश्चितैस्तैस्तु जालादुद्धृत्य धीवराः ।
राशीभूतान्खगांश्चक्रुरुड्डीय प्रययुश्च ते ॥ ६२२ ॥
इति हंसाख्यायिका ॥ ३२ ॥
चिरजीवीवचः श्रुत्वा मेघवर्णः श्रिया युत्तः ।
ननन्द शत्रुनाशेन राज्येन सह बान्धवः ।। ९२३ ।।
इति काकोलूकाख्यायिका ॥ ३३ ॥
वानरः शिशुमारश्च पुरा मित्र बभूवतुः ।
उदुम्बरफलाहारौ विस्रम्भप्रीतिसेवनात् ॥ ५२४ ॥


"वायसःख.