पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८२
काव्यमाला ।

कृपालुः कन्यका चक्रे तपसा ववृधे च सा।
तां यौवनस्थामालोक्य मुनितुं समुद्यतः ।। ५.०१ ॥
आजुहाव सहस्रांशुं कन्येयं गृह्यतां विभो ।
प्रभावतो गरीयांस्त्वमित्युक्तो रविरन्नवीत् ॥ ६.०२ ॥
मत्प्रभावाधिका मेवा ये कृत्लं छादयन्ति माम् ।
आहूतास्तेऽप्यथ प्राहुरस्मत्तोऽभ्यधिकोऽनिलः ॥ ६०३ ॥
सोऽप्यनवीदयाहूतो गिरिमत्तो बलाधिकः ।
आहूताः पर्वताः प्राहुर्मूषकैर्निर्जिता वयम् ॥ ५०४ ॥
गृहाण कन्यामित्याखुनिर्दिष्टो मुनिनावदत् ।
कन्या बिले ममः कथं प्रविशेदिति सादरः ॥ ६०६ ।।
ततः सा मूषिकैवाभूद्विलयोग्या मुनेगिरा।
इत्यात्मजातिमुत्सृज्य न यान्त्यभ्यधिक खलाः ।। ९०६ ॥
सूर्यं भर्तारमुत्सृज्य पर्जन्यं मारुतं गिरिम् ।
स्वयोनिं मूषिका प्राप्ता खजातिर्दुरतिक्रमा ॥ ९०७ ॥
इति मूषिकाख्यायिका ॥ ३० ॥
उक्त्वेति विरते तसिन्नमात्ये नौतिशंसिनि ।
उलूकः काकमादाय खमेव शिबिरं ययौ ॥ ५०८॥
तं शत्रुसंश्रयासन्ननाशं वीक्ष्य स्वयं प्रभुम् ।
उलूकमन्त्री प्रययावागामिभयशङ्कया ॥ ५०९ ॥
चिरजीवी समाश्वास्य छिद्रं दुर्ग समीक्ष्य च ।
आहूय वायसपतिं ददाहोलूकमण्डलम् ॥ ५१० ॥
दग्धोलूकगुहां पूर्णामभिषिच्य निजं प्रभुम् ।
चिरजीवी निजजनैः पूज्यमानो मुदं ययौ ॥ ५११ ॥
ततः पप्रच्छ सद्धृत्य राज्यमासाद्य वायसः ।
कथं शत्रुगृहे कालस्त्वया नीतोऽतिदुःसहः ।। ५१२ ।।
सोऽब्रवीद्विपुलं दुःखमवाप्तं कालकाङ्गिणा ।
शत्रुः स्कन्धेन वोढव्यः प्राज्ञैः सपदि सर्पवत् ॥ ११३:।।