पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८०
काव्यमाला ।

उक्त्वेति वायसामात्यश्चिरंजीवी निजं प्रभुम् ।
विसृज्य कृतकच्छन्नपक्षस्तस्यौ मृतोपमः ॥ ४.७७ ॥
अभ्येत्य वायसावासं चतुरः सानुगो निशि ।
उलूकः पतितं काकं ददर्श चिरजीविनम् ॥ १७८ ।।
केचिदाहुरवध्योऽयं बध्योऽयमिति चापरे ।
मन्त्रिणो धूकराजस्य मुख्यामात्योऽब्रवीत्ततः ॥ ४७९ ॥
कृपणः शरणं यातो रक्ष्योऽयं विपदि स्थितः ।
ददौ सार्थपतिः पूर्वं चौरायापि स्वयं धनम् ॥ ४८० ॥
वृद्धं पुरा सार्थवाहं भार्यं हरिणलोचना ।
बाला पिशाचसदृशं न सेहे द्रष्टुमुल्बणम् ॥ ४८१ ॥
कदाचिदथ शर्वर्यो चौरं वीक्ष्य खमन्दिरे ।
चकिता सहसा वृद्धमालिलिङ्ग धनस्तनी ।। ४८२ ।।
सदा पराङ्मुखीं दृष्ट्वा वयं कण्ठावलम्बिनीम् ।
कान्तां वृद्धोऽवदच्चौरमकाण्डामृतनन्दितः ।। १८३
नेक्षतेऽपाङ्गलोलाक्षी सैवमालिङ्गति खयम् ।
हर चौर धनं सर्व निलकृद्दयितोऽसि मे ॥ ४८४ ॥
इति दयिताख्यायिका ॥ २७ ॥
इति चौरोऽपि वणिजा कारणेन सुहृत्कृतः ।
अयं काकस्तु शत्रूणां सर्व वक्ष्यति चेष्टितम् ॥ ४८५ ॥
पुरा राक्षसचौराभ्यां श्रूयते रक्षितो द्विजः ।
तुल्यं कालं द्विजगृहं जग्मतुश्चौरराक्षसौ ॥ ४८६ ॥
शरीरधनहिंसार्थमहपूर्विकया तयोः ।
विवादोऽभून्निशि महानुचतुस्तौ द्विजं ततः ॥ ४८७ ॥
अयं ते धनप्राशस्तव चायं शरीरकृत् ।
विप्रतयोरिदं श्रुत्ला बलमन्त्रैर्जघान तौ ॥ ३८८ ॥
इति चौरराक्षसाख्यायिका ॥ २८ ॥


या मा नक्षत लोलाक्षी मच व चौराख्यायिका ख.