पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि छागाख्यायिका ।]
५७९
बृहत्कथामारी।

तस्मादुलूको नार्होऽयमिति तद्वचसा पुरा ।
नष्टराज्योऽभवद्वैरी काकानामित्यमङ्गलः ॥ १६५ ॥
छलेन पातय रिपून्सर्वोपायपरीक्षये ।
छलेन भ्रंशितः स्थानाभृतः शत्रुमिरग्रजः ॥ ४६.६ ॥
स्कन्धे छगलमादाय वजन्तं ब्राह्मणं पथि ।
(वैञ्चनायाब्रुवन्धूर्ताः संघशः कृतसंविदः) ॥ ४६७ ॥
अहो श्वा मृगहा नूनमयं कस्य द्विजर्षभ ।
स्कन्धे नवोढो मार्गेषु नृपोपायनमेष वा ॥ ४६८ ॥
एकस्मिन्नित्यपक्रान्ते दूरमन्याक्थोचतुः ।
अहो विचित्रं पश्यावः स्कन्धेन यदयं द्विजः ॥ ४६९ ॥
श्वानं वहति किं नु स्यादयं व्याधो द्विनाकृतिः ।
तयोः श्रुत्वेति विप्रस्तं निधाय भुवि शङ्कितः ॥ ४७० ।।
पस्पर्श पाणिना पुच्छविषाणकृष्णादिषु ।
उन्मत्ता विलपन्त्येते छामो नायमिति स्वयम् ॥ ४७१ ॥
पुनः स्कन्धे समादाय तं ययौ चतुरो द्विजः ।
ततः परे समस्येत्यः कक्षानियमिताम्बराः ।
ऊचुर्द्विजोऽयमस्पृश्यः श्वपाक इव पापभाक् ॥ ४७२ ॥
अहो महाजने नार्य लज्जते कुलपासनः।
श्वानं वहति यः स्कन्धे पथि याति च संस्पृशेत् ॥ ४७३ ॥
इत्याकण्यं भृशोद्विमस्त्यक्त्वा दुःखितो द्विजः ।
बहूनामेकवाक्येन संजातप्रत्ययोऽभवत् ॥ ४७४ ॥
मायावी राक्षसो नूनमजोऽयं स्यान्न संशयः
इति संचिन्त्य तत्याज तं द्विजो धूर्तवश्चितः ॥ ४७१ ॥
छागमादाय भुक्त्वा ते धूर्ता मुमुदिरे परम् ।
इति व्याजेन शत्रूणां कुर्यात्संपदि वञ्चनाम् ।। ४७६ ।।
इति छोगाख्यायिका ॥ २६ ॥


छागा ख.

२. एतत्कोष्ठान्तर्गतपाठः स्व-पुस्तके त्रुटितः.