पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७८
काव्यमाला ।

तत्तश्चन्द्रसरो ज्ञात्वा जलपूर्णं तथा द्विपः
संहृष्टो वातताराश्रुमृणालवलयाकुलम् ॥ ४९४ ॥
तत्रोपकण्ठे शशकान्गजेन्द्रचरणैर्हतान् ।
दृष्ट्वा शशपति(र्दूतं विलयं प्राहिणोद्भजे ॥ ४५५ ।।
स कपोलतलालीनमत्तालिवलयं द्विपम् ।
विसृष्टः शशिनास्मीति जगादाभ्येत्य निर्भयः ॥ ४६६ ॥
यल्लाञ्छितः) शशाङ्कोऽहं पाल्यास्ते शशका मम ।
तेषां क्षयमिमं कृत्वा मत्कोपान भविष्यसि ।। ४५७ ॥
इत्युक्तिचकितस्याथ द्विपस्वादर्शयजले ।
प्रतिमाचन्द्रममलं गजस्तं प्रणमाम च ॥ ४५८ ।।
स च चन्द्रसरो दृष्ट्वा करस्पर्शचलज्जलम् ।
शशवाक्याद्ययौ नागो ननन्दुः शशकास्ततः ।। ४९९ ॥
इति नागशशाख्यायिका ॥२४॥
स्वामिनो व्यपदेशेन सुखमित्वश्नुते जनः ।
अयं तु क्षुद्रपतिर्जिताजितविनाशनः ॥ ४६० !
कपिञ्जलशशौ पूर्वं वेश्मदानविनोदिनौ ।।
मार्जार दधिकर्णाल्यं न्यायं पप्रच्छतुः पुराः ॥ ४६.१ ॥
मिथ्याविनीतः सद्धर्मादेष्टा शान्तिपरायणः ।
जपस्थ इव सुप्ताक्षः सोऽब्रवीत्पेशलवनः ।। ४६२ ।।
अहिंसा परमो धर्मो मोक्षः परहितं नृणाम् ।
प्राणिद्रोहप्रसक्तानामन्धे तमसि संस्थितिः ॥ ४६३ ॥
श्रुत्वेत्याश्वासपदवीं तदा तावागतौ ततः ।
अभक्षयक्षुद्रनृपो दुष्टः सर्वविनाशकृत् ॥ ४६४ ।।
इति माजीराख्यायिका ॥ २६ ॥


धुतत्कोष्टान्तर्गत पाठः ख-पुस्तके श्रुटितः २. भाग' इति पद ख-पुस्तकें नो-

सकन्यते ३, रूप्यस ख.