पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-नागशशाखमाथिका ।
५७७
बृहत्कथामञ्जरी ।


श्रुत्वेति वायसपतिर्मन्त्रिणं चिरजीविनम् ।
पप्रच्छ कारणं पृष्टः सोऽप्याह श्रूयतामिति ॥ ४४२ ॥
मित्राणि शत्रुतां यान्ति शत्रवो यान्ति मित्रताम् ।
वाक्कृतेनैव वान्दोषाच्छ्यले गर्दभी हतः ॥ ४४३ ॥
द्वीपिचर्माविनद्धाङ्गो रजकेन पुरा खरः ।
पोषाय परसस्येषु ग्रीष्मे त्यक्तः स दुर्बलः ॥ ४४४ ॥
सस्यगोप्ताथ तं दृष्ट्वा चकिलो द्वीपिरूपिणम् ।
दुद्राव छन्नकोदण्डः कम्बलच्छन्नविग्रहः ॥ ४४६ ॥
सस्यपुष्टशरीरोऽथ तं मत्वा गर्दभी खरः ।
उद्दण्डमेहनोऽधावदत्युत्तालखुरद्वयः ॥ ४४६ ।।..
मां द्वीपिनं ज्ञास्यतीति तं मनोहरया गिरा।
घटयन्निव संमत्तोऽवदत्सामोचितं खरः
गर्दभं च गिरा ज्ञात्वा जघान स धनुर्धरः ।
वाग्दोषेणेति निहतो गर्दभो बुद्धिलाधवात् ॥ ४४८ ॥
इति रासभाख्यायिका ॥ १३ ॥
उलूकं पक्षिणं राज्ये विहान्कर्तुमुद्यत्तान् ।
दृष्ट्वा वशंकरः काकः पुरा प्रोवाच दुःखितः ।। ४४९ ॥
अमङ्गलो दिवान्धश्च यत्रोलूकः क्षितीश्वरः ।
का तत्रं कुशले वार्ता खस्ति गच्छाम्यहं दिशः ।। ६५० ।।
प्रसिद्धो हि महीनाथः कार्यः सर्वसुखावहः ।
प्रसिद्ध्याशंसिनो नाम शशकाः सुखभाजिनः ॥ ३५१ ॥
अनावृष्टिहते काले पुरा द्वादशवार्षिक ।
विज्ञप्तः क्षुत्कृशैर्ना श्चतुर्दन्ताधिपो द्विपः ॥ ४९२ ।।
विनष्टा एव कालेऽस्मिन्पयसो बिरहाद्वयम् ।
इत्युक्त्वा द्रष्टुम्गमन्नुदकं निखिला महीम् ॥ ४५.३ ॥