पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७४
काव्यमाला ।

तच्छ्रुत्वा लज्जितः किंचिद्गूढकर्णोऽप्यभाषत ।
न दर्पादन्यचित्तोऽहं श्रूयतामत्र कारणम् ॥ ४०७ ॥
सततं मूषकः पापो भैक्ष्यपात्रादलक्षितः ।
समश्नाति भिया तस्य जर्जरं वादयाम्यहम् ॥ ४०८ ॥
बृहत्स्फिग्गूढकर्णस्य श्रुत्वेति माह सस्मितः ।
यत्तवावहितस्यापि भक्षयत्येष भोजनम् ॥ ४०६ ॥
अवश्यं कारणेनानेन भवितव्यं तपोधन !
पुरापश्यमहं पान्थः स्थितो ब्राह्मणवेश्मनि ।
ब्राह्मणी कुपिता पत्युः सर्वान्नव्ययकारणात् ॥ ४११ ॥
लुब्धामवोचत्तां भर्ता भद्रे नाशोऽतिसंचये।
संचयनातिलुब्धो हि निहतो जम्बुकः पुरा ॥ ४१२ ॥
अरण्ये प्राप गोमायुः परस्परहतान्पुरा ।
लुब्धकक्रोडहरिणान्यत्रारूढं च कार्मुकम् ॥ ४१३ ॥
अयत्नोपनतं प्राप्य हर्षपूर्णोऽथ जम्बुकः ।
तान्संचयं विधायैव कार्मुकं भोक्तुमुद्यतः ॥ ४१४ ॥
चापचर्वणसक्तस्य तस्य यन्त्रेषुणा इंटम् ।
दारितस्य ययुः प्राणास्तस्मान्नाशोऽतिसंचयः ॥ ४१६ ॥
पत्युः श्रुत्वेति बचनं पर्वयागानुकारिणी ।
नानाय तं विसृज्याशु पाकशक्तामवत्क्षणात् ।। ४१६ ॥
तत्तिलान्कृशराहेतोः शिष्येण स्थापितान्पुरः ।
अभ्येत्य श्वा क्रियायोग्यांश्चक्रे जिह्वावलेहनैः ॥ ४१७॥
तिलानां विक्रय कर्तुमुद्यतामपरैस्तिलैः
दृष्ट्वा घरो गृहस्वामी विचिन्त्य क्षणमब्रवीत् ॥ ४१.८ ।।


वहीवा का