पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-जम्बुकाख्यायिका ।
५७३
बृहत्कथामञ्जरी ।

चित्रग्रीवोऽपि संप्राप्य सुहृदं वृद्धमूषकम् ।
हिरण्याख्यं महापाशच्छेदने तमनोदयत् ॥ ३९६॥
छिन्नपाशं हिरण्येन ततस्तं वीक्ष्य बायसः ।
सख्यं यत्वेन विदधे तेन्द विलब्धमाखुना ।। ३९६ ॥
प्ररूढतां ययौ प्रेम प्रीतिभुक्तिपुरःसरम् ।
याति काले रहः काकः कदाचिन्मित्रमब्रवीत् ।। ३९७ ॥
वृत्तियुक्तमपि स्थानमिदं मम न रोचते ।
सखे जातारतिर्देहे पुष्टिर्हि प्रथमा रतिः ॥ ३९८ ॥
तदेहि मन्थरो नाम मित्रं मे कच्छपाभिधः ।
जाह्नव्यामस्ति गच्छामो विहाराय तदन्तिकम् ।। ३९९ ।।.
कच्छपम् ।
कुशलानामयं पृष्ट्वा चक्रतुर्विविधाः कथाः) |॥ ४०० ॥
अपायः खिन्नः प्राप्तोऽयमित्युक्तो वायसेन सः ।
पृष्टो हिरण्यः प्रोवाच निजागमनकारणम् ॥ ४०१ ॥
परिव्राड् गूढकर्णोऽस्ति प्रख्यातो नगरान्तिक ।
तदाश्रमेऽहं सततं पूर्णी वृत्तिभकल्पयम् ॥ ४०२ ।
नागदन्ताप्रसंसक्तभिक्षाभोजनसंस्थितेः ।
"नारदपरिष्कारं हिन्धाव(न)मृदुभोजनैः ॥ ४०३ ॥
याति काले ततस्तस्य परिबाडाययौ पः ।
स मुक्त्वा निशि विश्रब्धं प्रोवाच विविधाः कथाः ॥ ४.० ४.
गूढकर्णस्तु मामेव चिन्तयञ्जर्जर मुहुः ।
अवादयत्कथाविध्ने बृहत्स्फिक्कुपितोऽब्रवीत् ॥ ४०९ ॥
अहो विद्यावयोवृद्धो निःसङ्गोऽपि भवान्सखा ।
कथास्वनादरों दन्मिदान्ध इव लक्ष्यते ॥ ४०६ ॥


१. च्छेदाय ख. २. प्रदेऽथ तयोः प्रेमिण खा. ३."धियः' स्यात्,

एकान्तर्गतपाठः क-पुस्तके त्रुटितः... ५. कवतिः वायसे'. क. त्रुटितः.