पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७२
काव्यमाला ।

तं याचमानं स्वतुलामनवीन्मधुरं वणिक् ।
भक्षिता मूषकैः सार्ध तच्छ्रुत्वा सोऽभ्यभाषत ।। ३८४ ॥
मूषका भक्षयन्त्येव लोहं मधुरपेशलम् ।
निशम्येति वचस्तुष्टस्तस्मै तथ्यसकल्पयत् ।। ३८६ ।।
तत्पुत्रं सोऽप्यथैकान्ते हृत्वा निक्षेपहारिणः ।
श्येनेन ते हृतः सूनुरित्याह विकृताननः ।। ३८६ ॥
ततो विवादे संप्राप्ते नगराधिपतेः पुरः ।
कथं श्येनो हरेबालं विस्मितानित्युवाच सः ।। ३८७ ।
यत्र लोहसहस्रस्य भक्षयन्त्याखवस्तुलाम् ।
श्येनः कुञ्जरहृत्तत्र किं चित्रं यदि बालहृतू ॥ ३८८ ॥
10315000
99.300
इति लोहतुलाख्यायिका ॥ १६ ॥
अत्रान्तरे पिङ्गलको दृष्ट्या संकोचकुञ्चिताम् ।।
ग्रीवां वृषस्य साशकं नखरात्रैरदारयत् ॥ ३९० ॥
हत्वा तमैनुतापार्तः स्वैरमायासितो हरिः ।
कर्कशा राजचर्येति मनेन धृति ययौ ।। ३९१ ।।
इति सिंहवृषाख्यायिका ॥ २० ॥
मिहिलारोप्यनगरे पुरासीद्वायसाधिपः ।
शाल्मलिस्कन्धवसतिर्लधुपातीति विश्रुतः ॥ ३९२ ।।
सं कदाचिद्ददर्शाग्रे कपोतेशं सहानुगम् ।
चित्रप्रीवाभिवं जालें पतितं पाशजीविनाम् ॥ ३९३ ।।
जालं हरन्तमालोक्य कौतुकात्तं विहायसा ।
वायसोऽनुययौ द्रष्टुं तस्य बुद्धिचिकीर्पितम् ॥ ३९४ ॥


त्रुटिचिहाभावेऽपि कौतुकास्पृथ्वृत्तान्तस्तस्य दापिताः । सभ्यै-

तुला सा तेवापि न जानीयार्थितोऽभकः ॥ इति कथासरित्सागरे दृष्टत्वेन शुटिचिङ्गं स्थापितम्, १२, मिनुलापात खैरमा-श्वासितो' ख... 'वंदनेन मला.