पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७०
काव्यमाला ।

श्रुत्वेति कर्कशं तस्य वक्रं बुद्धिविचेष्टितम् ।
पैशून्यभेदचकितो धर्म्यं करटकोऽब्रवीत् ।। ३६० ॥
लक्ष्मीः परोपतापेन कष्टानन्यधनक्षयैः
भूतदाहेन चागारं गच्छन्ति बत दुर्जनाः ॥ ३६१ ॥
सखे विरम पापात्त्वं शृणु मत्तोऽनुशासनम् ।
अथ वा मूर्खशास्तारो हतः सूचीमुखो यथा ॥ ३२ ॥
हेमन्तकर्षिताः पूर्व वानराः काष्ठसंचयम् ।
आहृत्य गत्वा खद्योतं मध्ये सर्वेष्वपावजन् ॥ ३६३ ॥
दृष्ट्वा सूचीमुखः पक्षी तत्तेषां मूर्खचेष्टितम् ।
प्राह व्यर्थश्रमेणालं खद्योतोऽयं न पावकः ॥ ३६४ ।।
इति शिक्षां ब्रुवाणस्य कश्चिच्छुश्राव नो वचः ।
यदा तदा स कर्णान्ते वानरानवदत्पुनः ।। ३६५ ॥
तत्रैको वचनं श्रुत्वा तस्य निर्बन्धमाषितम् ।
गृहीत्वा तं जघानाशु शिलायां भर्त्सयन्कपिः ॥ ३६६ ॥
एवं तवोपदेष्टारो न वयं कुशलास्पदम् ।
येनेयं स्वामिनो लक्ष्मीः पैशून्यात्संशये धृता ॥ ३६७ ॥
इति सूचीमुखाख्यायिका ॥ १७ ॥
अबुद्धियोगादधमाः सर्वदा विपदास्पदम् ।
पिता धूमेन निहतः सुतेनाधर्मबुद्धिना ॥ ३६८ ॥
धर्मबुद्धिरबुद्धिश्च द्वावेव सुहृदौ पुरा ।।
वणिक्पुत्रावलभतां सहस्रपरमं धनम् ॥ ३६९ ॥
ततो गृहीत्वा दशम भूमौ भाग निधाय तम् ।
जग्मतुस्त्रौ ततो गूढमबुद्धिः प्रजहाँ धनम् ॥ ३७० ॥
स एव हृत्वा प्रोवाच हृतं मे धर्मबुद्धिना।
साक्षी वक्ष्यति तत्रयो वृक्ष इत्यावीसभाम् ॥ ३७१ ॥


धमाका