पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियश्चसि-चतुराख्यायिका ।
५६९
हत्कथामंजरी ।


अलक्ष्यप्रतिमाद्भेदो मांसं चतुरको यथा ।
करमः शङ्ककर्णाख्यः क्रोष्टा चतुरकश्च सः ॥ ३४८ ॥
साचिव्यं कुशलो सिंह वनदन्तमुपाश्रितो ।
ततो युद्धार्दिततनौ कदाचिद्रारंणनिषि १. ३४९ है।
वृत्तिच्छेदाच्चतुरकः शकुकर्णमभाषत ।।
सखे वक्रं कया बुद्ध्या स्वामिने किं न दीयते ।। ३६० ।।
शरीरेणातिपुष्टेन किमनेन प्रयोजनम् ।
एवस्त्विति तेनोक्तः सिंहमभ्येत्यः सोऽवदत् ॥ ३९१ ॥
बृहत्प्रस्ताङ्कमानेन शरीरं संप्रयच्छति ।
करभो वः स्वया बुद्धा प्रसादः क्रियतां विभो ।। ३६२।।
तद्वाक्यादथ शार्दूलः शङ्ककण विदार्य तम् ।
ययौ स्नानाय धृत्वास्य द्वितीयं परिचारकम् ।। ३१३ ॥
तमाह क्रव्यवदनं जम्बुकं चतुरस्ततः ।
भक्षयावो बृहन्मांसमिति श्रुत्वाब्रवीच सः ।
तच्छ्रुत्वा चतुरः प्राह तदा मे दृष्टिमर्पय ॥ ३५४ ।।
अथ संभक्षिते मांसे संग्राले च मृगाधिपे
आलुलोके भयाक्रान्तः स कोष्टा चतुराननम् ॥ ३५६ ।।
भक्षयित्वा किमद्यापि बदनं मम वीक्ष्यसे ।
चतुरः प्राह तच्छ्रुत्वा तं जघान मृगेश्वरः ॥ ३६६ ॥
अत्रान्तरे महासार्थभ्रष्ट करभकं परम् ।
कटाहवादिनं दृष्ट्वा चतुरः सिंहमनीत् ॥ ३९७ ॥
बृहत्प्रस्थं समादाय सोऽयं करम आगतः ।
धिक्कष्टमन्धकर्णत्वं वनमन्यदितो ब्रज ॥ १५८ ॥
तस्मिन्गते यथेष्टं समक्षयन्वासयन्दहुन् ।
प्रमोदमाप दुर्लक्ष्यः खार्थसिधै सतां धियः ।। ३९२ ।।
इति चतुराख्यायिका ॥ १६ ॥


१. 'अष्टकं ब्याहतं ख.

७२