पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६८
काव्यमाला ।


अनागतभयाभिज्ञो वियत्प्राप्तौ च बुद्धिमान् ।
द्वावेतौ संपदां पात्रं विपदां दैववादिनः ॥ ३३६ ।।
अनागतविधिश्चैव प्रत्युत्पन्नमतिस्तथा ।
यद्भविष्यश्च मत्स्याः प्राक्शुश्रुवुर्धैवरीं गिरम् ॥ २३७ ॥
जालं क्षिपामः प्रत्यूषे इदेऽस्मिन्निति तद्भयात् ।
अनागतविधिः प्रायात्यक्त्वान्यौ गन्तुमर्थिती
ततः प्रभाते जालौघकृष्टे मत्स्यकदम्बके ।
प्रत्युत्पन्नमतिश्चक्रे कृतकं मृतवद्वपुः ॥ ३३९ ॥
निःशङ्कैर्धीवरैयस्तः स शनैः प्रययौ जलम् ।
यद्भविष्यस्तु लगुडैर्जर्जराङ्गो व्यपद्यत ॥ ३४० ॥
इत्युक्त्वा टिडिभी भर्तुर्वाफ्यात्तत्रैव शावकान् ।
असूत तांस्तरङ्गौधैर्जहार च सरित्पतिः ।। ३४१ ॥
गृहिणीभर्त्सितश्चक्रे दुःखितः पक्षिसंगमम् ।
टिट्टिभं तन्महानादं गरुत्मानशृणोत्ततः ॥ ३४२ ॥
तत्प्रेरितेन हरिणा निरस्तो मकराकरः ।
लज्जाविकुण्ठवदनष्टिट्टिन्यै शावकान्ददौ ।। ३४३ ।।
इति कच्छपमत्स्यटिट्टिमाख्यायिका ॥ १५ ॥
एवं शक्तविनोदेन महतामपि नोदयः ।
किमुतैकान्तभक्षाणामस्साकं मूढचेतसाम् ॥ ३४४ ॥
कृत्वेति भेदनोपायं ययौ करटकान्तिकम् ।
हसन्दमनकोऽभ्येत्य हृष्टोऽखिलमुवाच तम् ॥ ३४५
पैशून्योऽसि ततस्तेन पुनः प्राह च जम्बुकः ।
हृदये तैक्ष्ण्यमादायावदच्चामृतसंनिभः ॥ ३४६ ॥
एकद्रव्यार्थिनं हन्यां किं मामङ्ग विगर्हसे ।
परामिधातादश्नाति विभूतिं विबुधो जनः ॥ ३४७ ॥


बादाम

व न्याइसितस्तेन खी