पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्ति त्स्यविहिमाख्यायिका ]
५६७
वृहत्कथामञ्जरी ।

नेत्युक्तवाक्ये शार्दूले तदेव प्राह जम्बुकः ।
प्रतिषिद्धे पुनस्तस्मिन्द्वीपिन्यापि निराकृते ॥ ३२३ ।।
अचिन्तयत्करभकः संरम्मस्पृष्टमानसः
नैवेह भक्ष्यते कश्चिद्रौचित्यं दर्शयाम्यहम् ।। ३२४ ।
स्वामिन्नस्मच्छरीरेण क्रियतां प्राणवर्तनम् ।
इत्युक्तमात्रे जनुस्तं द्वीपिजम्बुकवायसाः ।। ३२५ ॥
इत्युष्ट्राख्यायिका ॥ १४॥
इत्युक्तो वृषभस्तस्थौ सिंहापकृतिचिन्तकः ।
तन्मतं तस्य विज्ञाय खैरं दमनकोऽब्रवीत् ॥ ३२६ ॥
शक्तः सिंहप्रतीकारे न कश्चिदिति चिन्त्यताम् ।
अचिन्तितान्यदर्पस्य लजाब्धेपि टिट्टिभात् ॥ १७ ॥
आसन्नप्रसवा पूर्वं टिट्टिमं दयितावदत् ।
प्रसवस्थानमन्यन्मे कल्प्यता निर्भयं विभो ।। ३२८ ॥
पूर्वस्थित्तिः समुद्रोमिमीषणा में न रोचते ।
इति तद्वाक्यमाकर्ण्य टिट्टिमः प्राह विलितः ।। ३२९ ॥
नैवापकर्तुं शक्तो मे समुन्नद्धो हि सागरः ।
भर्तुरित्युद्धतं श्रुत्वा प्रौढा प्रोवाच टिटिभी ।। ३३० ॥
आसन्नाकुशला नूनं न शृण्वन्ति हितं वचः ।
श्रूयते मित्रवचनानादरात्कच्छपो हतः ॥ १३१ ।।
हंसद्वयसखः पूर्व कच्छपः स्थानदोषतः ।
दन्तावष्टन्धकाष्ठानो नीतस्ताभ्यां विहायसा ॥ १३२ ॥
ह्रदान्तराभिगमने तो हंसौ कूर्मसूचतुः ।
मौनावलम्बिना भाव्यं त्वयैव बहुशः पथि ।। ३३३ ।।
ततः पौरजना दृष्ट्वा विदितं शकटाकृतिम् ।
अहो किमिदमित्यासन्महाकोलाहलाकुलाः ।। ३३४ ॥
किमेतदिति कूर्मोऽपि प्राह विस्मृततद्वचः ।
दारुस्खलितदन्तत्वात्पतितो निहतो जनैः ।। ३३६ ।।