पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६६
काव्यमाला ।

नगरोपान्तनिलयः पुरा चण्डरवाभिधः ।
जम्बुको वृत्तिलोभेन प्रविवेश पुरान्तरम् ।। ३.११ ॥
स रात्रौ श्वगणाक्रान्तः पलायनकृतश्रमः ।
नीलीकरससंपाताद्विचित्रं वर्णमाययौ ॥ ३१२ ॥
शृंगाला दुद्रुवुर्दृष्ट्वा तं स्वजातिविलक्षणम् ।
दर्पान्मोहात्समभ्येत्य व्याघ्रादिश्वधिकोऽभवत् ॥ ३१३ ।
तदुपाहतमांसाद्यैः पुष्टिविस्मृतदुर्गतिः ।
क्रोष्ठुकानां विलोक्यैव कदाचिद्वाचमुद्धताम् ।
प्रतिजग्राह नादेन स्वजातिसदृशेन सः ॥ ३१४ ॥
तच्छ्रुत्वैव परिज्ञाय तं लज्जाकुटिलाननाः ।
वञ्चिताः स्म खलेनेति जनुस्तं व्याघ्रचित्रकाः ॥ ३१५ ।।
इति चण्डरवाख्यायिका ॥ १३ ॥
उपपत्तिसहैर्वाक्यविरक्तहृदयं नृपम् ।
विधायेति हरिं गत्वा चक्रे शङ्काकुलं वृषम् ॥ ३१६ ॥
सोऽब्रवीद्भूर्तमध्ये हि दुर्लभं जीवितं सखे ।
मुग्धसिंहाश्रयं जनुरुष्ट्रं काकादयः पुरा ।। ३१७ ॥
विकटाक्षं पुरा सिंह संग्रामक्षतविग्रहम् ।
क्षुधार्ताः सचिवा ऊचुःपिगोमायुवायसाः ।। ३१८ ॥
अशक्ता विग्रहे स्वामिन्नवसन्ना वयं बने ।
निराहारा न चास्माकं स्वामित्यागः शुभावहः ॥ ३१९ ॥
एष सार्थपरित्रष्टो य उष्ट्रस्त्वामुपागतः ।
महाकायः स पर्याप्तमस्मत्संघस्य भोजनम् ॥ ३२० ॥
तच्छ्रुत्वा भृशमुद्विममाश्रितद्रोहकीर्तनात्
तमङ्गीकारपदवीं धूर्ता निन्युः शनैर्हरिम् ॥ ३२१ ॥
अथोष्ट्रसंनिधौ प्राह व्याजकल्पितसंविदा
वायसो मच्छरीरेण स्वामिन्वृत्तिः प्रकल्प्यताम् ॥ ३२२ ॥