पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-चण्डवाल्यायिका !]
५६५
वृहत्कथामञ्जरी।

अग्रेसरोऽथ शशको भूत्वा करदिबैरिणः ।
वैदूर्यस्फटिकस्वच्छं महाकूपमदर्शयत् ।। ३०० ।।
प्रतिबिम्बाकृतिं दृष्ट्वा स्वां तत्राकुलकेसरः ।
स कूपमग्नः प्रययौ प्रलयं शशवधितः ।
भवन्त्येवमुपायेषु धीमतां कार्यसिद्धयः ।। ३०१ ॥
इति शशकाख्यायिका ॥ ११ ॥
इत्युक्त्वा पिङ्गलं द्रष्टुं यातो हष्टा प्रणम्य च ।
इदं दमनको वाक्यमेकान्ते विरतोऽब्रवीत् ॥ १० ॥
कुलकमागता भृत्या हितवाक्येषु भूकताम् ।
यत्प्रायान्ति सदोत्सेकाः स्वामिनः सावलिहता ।। ३०३ ॥
संजीवकोऽयं वृषभः खामिद्रोहे समुद्यतः ।
यथा वक्राञ्चितग्रीवः संग्रामार्थीव लक्ष्यते ॥ ३०४ ॥
अयं चाभेषजो दोषो यदेतत्ककुदुद्भवः ।
कृमयो नित्यसंग्रामलब्रणेषु विषमास्तव ॥ ३०६ ।।
अविज्ञातस्वभावैर्हि संगतिविपदां पढ़म् ।
हता मत्कुणदोषेण यूका मन्दविसर्पिणी ॥ ३०६ ॥
दुग्धाब्धिफेनधवलक्षमापशय्यातलाश्रया ।
युका ददर्श परनानीतं टिभिमत्कुणम् ॥ ३०७ ।।
तं दृष्ट्वा साब्रवीद्दयो न ते तीक्ष्णमुखाश्रयः
तच्छ्रुत्वा सोऽवदद्दीनमेकरानि वसाम्यहम् ॥ ३०८ ॥
दत्ताश्रयोऽथ कृपया तया स सहसा नृपम् ।
अदशद्येन तत्क्रोधाद्धता यूकैव सेक्कैः ।। ३०९ ।।
इति यूकाख्यायिका ॥ १२ ॥
कुलक्रमागतत्यागो जन्मापूर्वश्च संगतिः ।
मौक्ख्याच्चण्डरवत्येव विनाशायैव भूपतेः ॥ ३१० ॥


तं

प्राणे