पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६४
काव्यमाला ।

अतिलौल्योद्धृतेनाथ कर्कटेन निपातितः ॥ २८८ ॥
उपायश्चिन्त्यतां सर्पवधे श्रुत्वेति वायसी ।
जहार राजनिलयात्सहसा हेमसूत्रिकाम् ॥ २८९ ॥
आदाय स्वकुलायागनम्रशाखावलम्बिनीम् ।
चकार ददृशुस्तां च नराः सर्पदुरासदाम् ।। २९० ॥
विधाय दलशो बाणैर्व्याजमारोहणोद्यताः ।
हृष्टा विलोक्य तत्काकी स्वयं भूषणमत्यजत् ।। २९१ ॥
इति काकबकाख्यायिका ॥ १० ॥
अस्माभिरप्युपायांशः कर्तव्यो वृषभेदने ।
उपायेन हतः पूर्वं शशकेनापि केसरी ।। २९१ ।।
अभूत्समस्तहरिणबातसंहारतत्परः ।
सिंह समेत्य सारङ्गाः क्षयार्ता इदमब्रुवन् । २९३ ।।
प्राणयात्राकृते स्वामिन्कोऽयं सर्वक्षयादरः ।
वारेण प्रेषयामस्ते मृगमेकं सदा क्षयम् ॥ २९४ ॥
एवमस्त्विति सिंहस्य विज्ञाय हरिणा मतम् ।
प्रेषयामासुरव्यग्रा एकैकं कृतसंविदः ।। २९५ ।।
अर् कालेन शशको वारेण प्रेषितो हरेः ।
अचिन्तयद्बुधः कालं दंष्ट्रापातेऽप्यसंभ्रमः ।। २९६ ।
आहारकालेऽतिक्रान्ते क्षुरक्षामे कुञ्जरद्विषि ।
गमिष्यासीति सोऽगच्छच्छशका कुपितं हरिम् ॥ २९७ ॥
गर्जता तेन पृष्टोऽसौ वेलातिक्रान्तिकारणम् ।
अब्रवीदेव सिंहेन संनिरुद्धोऽस्मि वर्मनि ॥ २९८ ।।
श्रुत्वेति कोपादास्फाल्य लाङ्गलं धूतकेसरः ।
सोऽवददर्शय वासौ कि भत्तोऽप्यधिको हरिः ।। २९९ ।।


या एतदले ख-पुस्तके बिकाख्यायिका' इत्युपलभ्यते. २. गर्भकाख्यायिका इति

सर-पुखकरथे पाठ ३, जिसनमात ख.