पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-काकबकाख्यायिका
५६३
बृहत्कथामलरी।

अहो मूढ न जानीषे स्वामिनं पिङ्गलं हरिम् ।
तत्पादसेवाबाश्वस्य का नु रक्षा वने तव ॥ २७७ ।।
तच्छ्रुत्वा कम्पितमनास्ततः संजीवकोऽभवत् ।
दत्ताभयोऽथ तेनैव नीतः पिङ्गलकान्तिकम् ॥ २७८ ॥
स प्रणम्य प्रसादार्द्रदृशा तेनावलोकितः ।
कृतकृत्यमिवात्मानं मेने वियतसंभमः ॥ २७९ ॥
स कालेनान्तरङ्गोऽभून्मृगराजस्व सेवकः ।
आसन्न एवं प्रह्वेण नृपाः कान्ताश्च सादराः ॥ २८ ॥
तयोर्विश्रम्भमालोक्य बायत्वादतितापितौ ।
क्षुत्क्षामौ पेततुर्दुःखैः सचिवौ जम्बुको हरेः ॥ २८१ ॥
ततो दमनकः प्राह सचिवो मन्दबुद्धिना ।
संजीवसिंहयोः प्रीतिविनाशायात्मनः कृता ।। २८२ ।।
उपायश्चिन्तनीयोऽत्र जाने ताबद्विभेदने ।
(उपायक्रमसाध्यं तद्बलसाध्वं न तद्भवेत् ॥ २८३ ॥
श्रूयते कृष्णसर्पो हि धिया काकेन पातितः ।)
वृक्षमूलाश्रयः सर्पः पुरा वायसपोतकान् ।
भक्षयामास तदुःखकशाभूदायसप्रिया ॥ २८४ ॥
गोमायुकः सुहृत्पृष्टस्तथा तामाह दुःखिताम् ।
समाश्वसिहि सोऽयं विनश्यति बको यथा ।। २.८५ ।।
कपटव्रतमास्थाय मत्स्यान्प्राह पुरा वकः।
प्रस्तुतो धीवरैयुष्मद्भदे प्रातमहाक्षयः ॥ २८ ॥
युष्मद्विनाशे नष्टोऽहं यूयं वृत्तियतो भगः ।
इत्युक्तिचकितान्मत्स्यान्त्रक्षार्थ नेतुमुद्यतः ।। २४७ ।।
बकस्तान्भक्षयन्कालं स निनाय यथारूचिः ।


एतत्को ठान्तर्गतपाठः ख-पुस्तके त्रुटिंतः: २. "विश्वस्वस्तिद्भयारका ख.