पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६२
काव्यमाला ।

पूर्वसंस्कारयोगेन सत्त्वान्मुनिवरेण वा ।
संस्फुटोच्चरति प्रायः पशूनामपि भारती ॥ २६५ ॥
ततोऽब्रवीद्दमनकः सखे किमयमीश्वरः ।
अदृष्टशब्दमात्रेण क्षोभाकुल इवेक्ष्यते ॥ २६६ ॥
तच्छ्रुत्वा धीमतां धुर्यो हसन्करटकोऽब्रवीत् ।
निरर्थचिन्तायोगेन किं प्रयोजनमावयोः ॥ २६७ ॥
अप्रयोजनकर्ता यः सर्वथा दुःखभाजनम् ।
अकार्यदुर्ग्रहग्रस्तः कीलाकर्षकवानरः ॥ २६८ ॥
श्रूयते नगराभ्यासे नवनिर्माणकारिणः ।
अर्धस्फुटितकाष्ठाग्राः परं स्थपतयो ययुः ॥ २६९ ।।
गतेषु तेषु विपुलः कपिसार्थः समाययौ ।
वल्लीतानकविन्यस्तसंभाविभवनिर्मितः ॥ २७० ॥
तत्रैकश्चापलात्कील स्फाटिकस्तम्ममस्तकात् ।
स्पृशन्नुवाच केनायमस्थाने विनिवेशितः ॥ २७१ ॥
तस्मिन्नभ्युद्धृते यन्त्रकीलके मुष्कपीडनात् ।
स संघटितसर्वाङ्गः सहसा निधनं ययौ ॥ २७२ ।।
इति वानराख्यायिका ॥९॥
निशम्येति वचस्तस्य ययौ दमनकः प्रभोः ।
समीपं संशयस्थाने सेवाकालो हि धीमताम् ॥ २७३ ॥
स विज्ञाय प्रभोश्चेतः शब्दमात्रविसंस्थुलम् ।
प्राह प्रायो भवन्त्येव बाढशब्दा धनादिषु ॥ २७४ ।।
मासपूर्णेति विज्ञाय भेरीमध्वानमन्धरम् ।
क्रोष्टापश्यत्समुत्पाधि पुरा काष्ठं च चर्म च ॥ २७५ ।।
इत्युक्त्वा स्वामिनं धीमान्ययौ शब्दानुगः शनैः ।
विलोक्य वृषभं सत्र साक्षेपमिदमनचीत् ॥ २७६ ॥


ल्याहीव चो' व स्तम्भदिनवना मिना च३. सिदा कालो हि ख.