पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशसि-वानराख्यायिका
५६१
बृहत्कथामञ्जरी ।

शूरवर्माभिवानस्य कुलपुत्रस्य मानिनः ।
जलशायिन्यभिख्याभूद्भार्या नीचकुलोद्भवा ॥ २५२ ।।
ग्रामान्तरगते तस्मिन्सा तन्मित्रेण संगता।
मृगदत्ताभिधानेन सिषेवे सुरतोत्सवम् ।। २५३ ।।
शूरवर्मा समभ्येत्य ज्ञात्वा तस्या विचेष्टितम् ।
तत्याज नो बवार्हेति निकारे गतविक्रियः ॥ २५.४ ।।
उक्त्वेति राजतनयं पुनः प्रोवाच गोमुखः ।
श्रूयतामधुना देव कथा चित्तविनोदिनी ॥ २५६ ।।
दाक्षिणात्ये जनपदे दिबुधवातसेवितम् ।
मिहिलारोष्यनामास्ति पुरं सुरपुरोत्तमम् ॥ २९ ॥
वर्धमानकनामाभूत्तत्रातिधनदो वणिक् ।
प्रस्थितो द्वीपयात्रायां स विवेश महावनम् ॥ २५७ ।।
तत्रास्य विषमयावविदीर्णपदविक्लवः ।
धुर्योऽवसनो वृषभो वृक्षावृषसंमितः ।। २५८ ।।
याते वणिग्वरे त्यतस्तन्नियुक्तैः स रक्षिभिः ।
नवौषधिचयाहारः कालेन स्वास्थ्यमाययौ ।। २६९ ॥
पीनदर्पाकृतिजले तसिन्संजीवकाभिधे ।
निर्झरोपान्तपारीषु वच्छन्दमुखवारिणि ।। २६० ॥
उदकार्थं समन्यायापिङ्गलाख्यो मृगाधिपः ।
वनं यत्केसरैः स्फारैः साहासमिवाभवत् ।। २६१ ।।
स शुश्राव वृषस्योग्रं शृङ्गाघातं स्फुटं तटे।
टाङ्कारनादमुखरं हुंकारनिबिडध्वनिम् ॥ २६२ ॥
श्रुत्वा तदुनिनदं विषम स्थगितकमः ।
स तस्थौ फुल्लरोमाञ्चैः पीनलालपल्लवः ॥ २६३ ॥
करटो दमनश्चैव सचिवों तस्य जम्बुको ।
दूरतश्चित्तसंक्षोभं विलोक्य वैरसूचतुः ।। २६.४ ।।