पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६०
काव्यमाला ।

ततः सा विग्रहोन्मत्ता शनकैर्मकरन्दिका ।
निजकर्मविपाकाच्च तत्पिताप्यभवच्छुकः ॥ २४ ॥
सोऽयमेव शुकस्तस्याः पिता विद्याधरेश्वरः ।
पुलस्त्येनेति भवतो श्रुत्वाहं जातिमस्मरम् ॥ २४.१ ॥
असौ निषादी मत्पुत्री दत्ता तुभ्यमियं तया !
सोमप्रभो राजपुत्रः शिवादिष्टः समेष्यति ॥ २४२ ॥
अथैनां निजरूपं तदास्थितां मकरन्दिकाम्
मनोरथप्रभापि त्वामद्यैव समुपेष्यति ।
सरोजिन्या मुनिवरस्त्वं हि लक्ष्मीसुतः प्रभो ॥ २४३ ॥
इत्युक्त्वा स शुकः प्राप निजं वैद्याधरं वपुः ।
जातिस्मरो विधायैव तं राजानं सुमानसम् ॥ २४४ ॥
अत्रान्तरे समाक्रान्ताश्चिन्तयन्मकरन्दिकान् ।
आदिष्टः शंभुना स्वप्ने तद्वृत्तान्तं निवेद्य तम् ॥ २४१ ॥
तेनैवासौं समभ्यायाद्देशं सोमप्रमोऽथ तम् ।
मुक्तां निषादभावात्तामवाप्य मकरन्दिकाम् ॥ २४६ ॥
मनोरथप्रभा ज्ञात्वा विद्यया तद्विचेष्टितम् ।
समेत्य भेजे राजानं तं यातं मुनिपुत्रताम् ॥ २४७ ।।
ततो मिथो ननन्दुस्ते गत्वा तुहिनभूधरम् ।
इत्येव स्वेचरासङ्गो नृणां भवति कर्मतः ॥ २४८ ॥
त्वं च तां शक्तियशसं विद्याधरनृपात्मजाम् ।
अचिरालाप्स्यसि विभो गौर्यादिष्टं न संशयः ॥ २४९ ॥
एवमुत्तमसत्त्वानां गाढं प्रणयरागिणाम् ।
कुलाचारोपपन्नानां भवत्येव समागमः ॥ २५० ।।
स तामसमनारीभिः कुलाचारविपर्ययात् ।
संगमप्रान्तविरसः शीलध्वंसादिदुर्णयः ॥ २१ ।।
इति सुमानसाख्यायिका ॥ ८॥


शापान्ता खरी