पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६. शक्तियशति-सुमानसाख्यायिका ।।
५५९
हत्कथामक्षरी ।

अयं देवजयो नाम विद्याधरकुमारकः ।
तया विसृष्टस्त्वां वक्तुमिहैवागम्यतामिति ॥ २२७ ॥
ततो देवजयेनापि तदेवोक्ता व्यचिन्तयत् ।
मनोरथप्रभा किंचिच्यानस्तिमिललोचना ॥ २२८ ।।
संख्या परिणयेणैवं मद्दुःखान्नियमः कृतः ।
रूपवान्राजपुत्रोऽयं तस्याः संचितः पतिः ॥ २१९ ।।
गृहीत्वैनं प्रयाम्येव तद्वन्तिकमहं यतः ।
एतन्मुखेन्दुमालोक्य सा प्रतिज्ञा विमोक्ष्यति ।। २३० ।।
मत्वेति राजपुत्रेण सह देवजयेन सा ।
मनोरथप्रभा प्रायात्पद्मलेखानुगां सखीम् ।। २३१ ।।
अन्तःपुरे तामासाद्य ततः सा मकरन्दिकाम् ।
(परिष्वज्य मिथो भेजे सा मुन्धा माटिकासनम् ॥ २३२ ।।
सोमप्रभं विलोक्यैव सुन्दरं नकारन्दिका) ।
बभूवानन्दनिष्यन्दमकरीकृतमानसः ।। २३३ ।।
राजपुत्रोऽपि तां वीक्ष्य हरिणायतलोचनाम् ।
लक्ष्यतां पञ्चवाणस्य प्रययौ विस्मयाकुलः ॥ २३४ ।।
तयोः परस्परसोरमारसरम्भनिर्भरः ।
यूनोरभूत्महत्स्वेदप्रकम्पपुलकोत्सवः ॥ २१५ ॥
अत्रान्तरे राजसूनोर्मन्निपुत्रः प्रियंकरः ।
तुरङ्गखुरमुद्राङ्कां शनकैः प्राप पद्धतिम् ॥ २३६ ।।
अस्मिन्नेवान्तरे शीघ्रसंचारो लेखहारकः ।
ज्योतिःप्रभस्य संदेशाद्राजपुत्रं समाययो । २३७ ।।
तूर्णमेहीति स पितुः श्रुत्वाज्ञा मन्त्रिसूनुना ।
संगतो दयितामेव ध्यायन्मूड इवाभवत् ।। २२८ ।।
अचिरात्त्वां समेष्यामीत्येवं हि कृतसंविदम् ।
विद्याधरेन्द्रसुलया सानुगः स्वपुरं ययौ ॥ २३९ ॥


एतकोष्ठान्तर्गतपाठःख-पुस्तके श्रुटितः,