पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/५५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५५८
काव्यमाला ।

(ततः सखी विसृज्यासौ ताम्यन्मानसमायया)
आनीतो निजमुद्यानं निशीथे संगमाशया ॥ २१४ ॥
तत्र फुल्ललताजालगुञ्जन्मधुकराकुले ।
प्रौढचन्द्रकरस्मेरो स्मृत्वा मां जीवितं जहौ ॥ २१६ ।।
ततोऽहं तूर्णमायाता तमपश्यं तथागतम् ।
रूपद्वेषादिवास्येत्य हृतं मकरकेतुना ॥ २१६ ॥
हा प्रियेति विलप्याहं यावन्न पतिता भुवि ।
अवतीर्य दिवस्तावदनैषीत्कोऽपि तत्तनुः । २१७ ॥
ततः प्रवेष्टुकामां मामनले शोकसंस्थिताम् ।
प्राप्स्यसीमं पुनरिति प्राह मां कोऽपि खेचरः ॥ २१८ ॥
तदाशालम्बनधृतिस्ततः शीतांशुशेखरम् ।
इति स्थिताहं वरदं ध्यायन्ती पार्वतीपतिम् ॥ २१९ ॥
इति सोमप्रभः श्रुत्वा तत्र विद्याधरीवचः ।
तां प्राह विस्मितः कासौ पझलेखा सखी तवः ।। २२० ।
इति सा राजपुत्रेण पृष्टा प्रोवाच सुन्दरी ।
सिंहविक्रमनामास्ति श्रीमान्विद्याधराधिपः ॥ २२१ ।।
अस्ति तस्येन्दुवदना तनया सकरन्दिका ।
दग्धोऽपि हरकोपेन यत्कान्त्या जीवितस्वरः ॥ २२२ ।।
अपांशुलेखनात्सा में सखी प्राणा बहिश्चराः ।
तया मद्दुःखमाकर्ण्य विवाहे नियसः कृतः ॥ २२३ ॥
तां बोधयितुमद्यैव पद्मलेखा सखी मया
विसृष्टा तपितुर्वाक्यात्सुतानियमदुःखितः ।। २२४ ॥
इत्युक्तवत्या विद्याभूकन्यकायां समाययौ ।
तस्मिन्नेव क्षणे क्षिप्रं तद्विसदैव सा सखी ॥ २२६ ॥
विद्याधरेयानुगतो पालोखा समेत्य ताम् ।
उवाच सखि नोद्वाहं मन्यते मकरन्दिका ॥ २२६ ॥


इयतक व सस्तक वारिता